________________
Shri Mahavir Jain Aradhana Kendra
25
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 385
वन्दे जानवरप्रदाननिरतं पादारविन्दं गुरोदिव्यौघप्रभ्टतेच विघ्ननिचयध्वंसे शलम्बोदरम् । तन्त्राणां रचनाकरं पशुपतिं गुह्येश्वरौं कालिकां ब्रह्मोपेन्द्रमहेन्द्रवन्दिततरां वच्चादिकां योगिनोम् ॥ नेपालाधिपतेः समस्तधरणौजानौन्द्रचूडामणे
नीनादानतपोत्रतादिकविताशीलस्य विद्यानिधे[:] । भूपालेन्द्र धराधिपस्य नवमौसिंहस्वमात्यः क्रमं निर्णीया बुधैः समं वितनुते श्रीतन्त्रचिन्तामणिम् ॥ चेद्ग्रन्थलाघवधियात्र निगूढगुप्तिः
कार्य्या तदा बुधजने मम मुग्धता स्यात् । तस्माद्रहस्यकथनं ध्रुवमस्ति लोके
प्राकयदोषशमनं कुरु देवि मातः ॥ हे धौराः परमार्थदत्तमनसः सिद्धिं परामौसवः . तत्तद्दैवतसद्रहस्यमखिलं ज्ञातुञ्च चेदुत्सुकाः । तत् पश्यन्तु भवन्त एवममलं ग्रन्थं मदीयं मुज्डनीनातन्त्रविलोकनोत्सुकतया नायासयध्वं मनः ॥ तन्त्राणां वचनं येषां ग्रन्थेऽस्मिन् प्रकटीकृतं । तेषां नामानि तन्त्रस्य उत्प[ ]त्तकथनं पुनः ॥ कृतादियुगभेदेन मार्ग एव पृथक् पृथक् । व्याधिक्यमागमानाश्ञ्च सृट्युत्पत्तिक्रमस्ततः ॥ कालिकाकृष्णयोस्तारारामयोचैकरूपता । निर्णेयो दशविद्यायाः शिवशक्त्योपासना || श्यामायाः सर्व्वमूलत्वमुक्तमाद्ये प्रकाशके । मन्त्रोद्धारक्रमेणैव वामदक्षिणलक्षणम् ॥ विद्याखाम्नायके मार्गनिर्णयश्च ष्टथक् पृथक् । व्यावश्यको मकारेषु चाम्नायाधौनतस्तु यः ॥ गुरुं विना तन्त्रमन्त्रे नाधिकारिनिरूपणम् । दीक्षाप्रशंसा गदिता द्वितीये तु प्रकाशके ॥
For Private and Personal Use Only