SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 386 ) श्रीगुरोः शिवतुल्यत्वं गुरुलक्षण निर्णयो । गुरुं विनोपदेशौ च स्त्रीणां वामे खनायकात् ॥ लक्षणलक्षणे शिष्ये तयोराम्नायनिर्णयः । त्यान्यात्यान्यविवेकः स्यादुपदेशान्तरं तयोः ॥ वैदिकादिषु मन्त्रेषु स्त्री हौ नाधिकारिणौ । जातेर्मनश्व विप्रादौ देयादेयविवेचना ॥ एतेषां संस्थितिर्ज्ञेया प्रकाशे (के) तु तृतीयके । तूर्य्यप्रकाशे संस्काराः षोडशैव तु मन्तिणः ॥ तत्र नामप्रदानाख्ये चक्राणां लिखनं कृतम् । मन्त्राणामपि संस्काराः षोडशैव प्रचोदिताः ॥ मध्ये शापप्रदानन्तु पञ्चमे च प्रकाशके | मासादिनिर्णयः षष्ठप्रकाशे तु प्रकीर्त्तितः ॥ दीक्षाविधिर्धना (घ्या) द्यादौ परीक्षाग्रहणे भुवः । वास्तुयागविधेरादौ तस्योत्पत्तिः प्रकीर्त्तिता ( : ) ॥ तन्मण्डलञ्च शास्त्रोक्तं तत्र देवविनिर्णयः । बलिमन्त्राश्च तन्त्रोक्तवास्तुमण्डलदैवते ॥ प्रकाशे सप्तमे प्रोक्ते चाष्टमेथ निगद्यते । दिक्साधनं मण्डपस्य कुण्डादेर्लक्षणानि च ॥ अङ्कुरारोपणं प्रोक्तं नवमे तु प्रकाशके । गुरोर्निमन्त्रणविधिर्दन्ते काष्ठशुभाशुभम् ॥ स्वप्नं सम्प्रार्थनविधिर्वहे [:] स्थितिविवेचनम् । कुण्ड संस्कारपूर्वं हि वह्निसंस्थापनं पुनः ॥ दीक्षाया दिनकृत्यं हि तदङ्गहवनं ततः । मन्त्रप्रदाने भेदोऽस्ति वामदक्षिणमार्गयोः ॥ उपदेशः कुलस्त्रीणां दीक्षाभेदोपदेशको । उपासनाविधिः खग्नलब्धमन्त्रस्य निर्णयः ॥ मनोर्गुरोश्च देवस्य त्यागो दशप्रकाशके । क्रमदीक्षाविधिर्विद्याविशेषे परिकीर्त्तिता । For Private and Personal Use Only
SR No.020274
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 01
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1939
Total Pages616
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy