________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ॥७२॥
प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् नियुक्ति: ६९ प्रत्युत्पत्रविनाशद्वारे गान्धर्वकोदाहरणम्।
प्रवृत्तेः, तदन्वितं चोदाहरणमपि प्राय इति ज्ञापनार्थम्, अलं प्रसङ्गेन । अभिहितं स्थापनाकर्मद्वारम्, अधुना प्रत्युत्पन्नविनाशद्वारमभिधातुकाम आह
नि०- होंति पडुप्पन्नविणासणंमि गंधव्विया उदाहरणं । सीसोऽवि कत्थवि जइ अज्झोवजिज्ज तो गुरुणा ।।६९॥ भवन्ति प्रत्युत्पन्नविनाशने विचार्ये गान्धर्विका उदाहरणं लौकिकमिति । तत्र प्रत्युत्पन्नस्य वस्तुनो विनाशनं प्रत्युत्पन्नविनाशनं तस्मिन्निति समासः । गान्धर्विका उदाहरणमिति यदुक्तं तदिदं-जहा एगम्मि णगरे एगो वाणियओ, तस्स बहुयाओ भयणीओ भाइणिज्जा भाउज्जायाओ य, तस्स घरसमीवे राउलिया गंधव्विया संगीयं करेंति दिवसस्स तिन्नि वारे, ताओ वणियमहिलाओ तेण संगीयसद्देण तेसु गंधव्विएसु अज्झोववन्नाओ किंचि कम्मादाणं न करेंति, पच्छा तेण वाणियएण चिंतियं-जहा विणट्ठा एयाओत्ति, को उवाओ होजा? जहा न विणस्संति त्तिकाउं मित्तस्स कहियं, तेण भण्णइ- अप्पणो घरसमीवे वाणमंतरं करावेहि, तेण कयं, ताहे पाडहियाणं रूवए दाउं वायावेइ, जाहे गंधव्विया संगीययं आढवेंति ताहे ते पाडहिया पडहे दिति वंसादिणो य फुसंति गायति य, ताहे तेसिं गंधव्वियाणं विग्यो जाओ, पडहसद्देण यण सुव्वइ गीयसद्दो, तओ ते राउले उवट्ठिया, वाणिओ सहाविओ, किं विग्घं करेसित्ति? भणइ- मम घरे देवो, अहं तस्स तिन्नि वेला पडहे दवावेमि,
Oयथैकस्मिन् नगरे एको वणिक् तस्य बहुका भगिन्यः भागिनेय्यः भ्रातृजायाश्च, तस्य गृहसमीपे राजकुलीया गान्धर्विकाः सङ्गीतं कुर्वन्ति दिवसे त्रीन् वारान्, ता वणिग्महिलास्तेन सङ्गीतशब्देन तेषु गान्धर्विकेषु अध्युपपन्नाः किश्चित्कर्मादानं न कुर्वन्ति, पश्चात्तेन वणिजा चिन्तित- यथा विनष्टा एता इति, क उपायो भवेत्? यथा : न विनश्यन्तीति कृत्वा मित्राय कथितम्, तेन भण्यते- आत्मनो गृहसमीपे व्यन्तरिकं कारय, तेन कृतम्, तदा पाटहिकेभ्यो रूप्यकान् दत्त्वा वादयति, यदा गान्धर्विका सङ्गीतमाद्रियन्ते तदा ते पाटहिकाः पटहान् ददति वंशादींश्च स्पृशन्ति गायन्ति च, तदा तेषां गान्धर्विकाणां विघ्नो जातः, पटहशब्देन च न श्रूयते गीतशब्दः, ततस्ते राजकुले उपस्थिताः, वणिक् शब्दायितः, किं विघ्नं करोषीति?, भणति- मम गृहे देवः, अहं तस्य तिस्रो वेला: पटहं दापयामि,
।। ७२ ।।
33000
For Private and Personal Use Only