________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥६९॥
नि०- एवं तु इहं आया पञ्चक्खं अणुवलब्भमाणोऽवि । सुहदुक्खमाइएहिं गिज्झइ हेऊहिँ अस्थिति ॥६३ ।।
प्रथममध्ययनं एवमेव यथा धातुवादादिभिर्द्रव्यादि इह अस्मॅिल्लोके आत्मा जीवः प्रत्यक्ष मिति तृतीयार्थे द्वितीया प्रत्यक्षेण अनुपलभ्यमानोऽपि द्रुमपुष्पिका,
सूत्रम् १ अदृश्यमानोऽपि सुखदुःखादिभिः आदिशब्दात् संसारपरिग्रहो गृह्यते हेतुभिः युक्तिभिः अस्ति विद्यत इति-एवं गृह्यते, तथाहि
नियुक्तिः सुखदुःखानां धर्मत्वाद्धर्मस्य चावश्यमनुरूपेण धर्मिणा भवितव्यम्, न च भूतसमुदायमात्र एव देहोऽस्यानुरूपो धर्मी, तस्याचेतनत्वात् सुखादीनां च चेतनत्वादिति, अत्र बहु वक्तव्यमिति गाथार्थः ।।
द्रव्यानुयोग
मधिकृत्योनि०-जह वऽस्साओ हत्थिं गामा नगरंतु पाउसा सरयं । ओदइयाउ उवसमं संकंती देवदत्तस्स ।। ६४॥
पायदर्शनयथा वे ति प्रकारान्तरदर्शने अश्वात् घोटकात् हस्तिनं गजं ग्रामात् नगरं तु प्रावृषः शरदं प्रावृट्कालाच्छरत्कालमित्यर्थः ।।
आत्मास्ति
त्वाभिधान औदयिकाद् भावाद् उपशम मित्यौपशमिकं संक्रान्तिः संक्रमणं संक्रान्तिः कस्य?- देवदत्तस्य, प्रत्यक्षेणेति शेषः ।।
नि०- एवं सउ जीवस्सवि दव्वाईसंकमं पड़च्चा उ। अत्थित्तं साहिजड़ पचक्खेणं परोक्खंपि ।। ६५॥ A एवं यथा देवदत्तस्य तथा, किं?- सतो विद्यमानस्य जीवस्यापि द्रव्यादिषु संक्रमः, आदिशब्दात् क्षेत्रकालभावपरिग्रहः, तं प्रतीत्य आश्रित्य अस्तित्वं विद्यमानत्वं साध्यते अवस्थाप्यते । आह सतोऽस्तित्वसाधनमयुक्तम्, न, अव्युत्पन्नविप्रतिपन्नविषयत्वात् साधनस्य, प्रत्यक्षेण अश्वादिसंक्रमेण, सर्वथा साक्षात्परिच्छित्तिमङ्गीकृत्य परोक्षमपि अप्रत्यक्षमपि, अवग्रहादिस्वसंवेदनतो लेशतस्तु प्रत्यक्षमेवैतत्, एतदुक्तं भवति-यथा अश्वादिसंक्रान्तिन देवदत्ताख्यं धर्मिणमतिरिच्य वर्त्तते, एवमियमप्यौदारिकाद्वैक्रिये तिर्यग्लोकादूर्ध्वलोके परिमितवर्षायुष्कपर्यायादपरिमितवर्षायुष्कपर्याये चारित्रभावादविरतभावे च संक्रान्तिर्न जीवाख्यं धर्मिणमन्तरेणोपपद्यत इति वृद्धा व्याचक्षते । अन्ये तु द्वितीयगाथापश्चाई पाठान्तरतोऽन्यथा व्याचक्षते
||६९॥
For Private and Personal Use Only