SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ॥ ६५ ॥ www.kobatirth.org नि०- एमेव चउविगप्पो होइ उवाओऽवि तत्थ दव्वंमि । धातुव्वाओ पढमो नंगलकुलिएहिं खेत्तं तु ।। ६१ ।। एवमेव यथा अपायः, किं ? - चतुर्विकल्पः चतुर्भेदः भवत्युपायोऽपि तद्यथा- द्रव्योपायः क्षेत्रोपायः कालोपायः भावोपायश्च, तत्र द्रव्य इति द्वारपरामर्शः द्रव्योपाये विचार्ये धातुर्वादः सुवर्णपातनोत्कर्षलक्षणो द्रव्योपायः प्रथम इति लौकिकः, लोकोत्तरे त्वध्वादौ पटलादिप्रयोगतः प्रासुकोदककरणम्, क्षेत्रोपायस्तु लाङ्गलादिना क्षेत्रोपक्रमणे भवति, अत एवाह- लाङ्गलकुलिकाभ्यां क्षेत्रं उपक्रम्यत इति गम्यते, ततश्च लाङ्गलकुलिके तदुपायो लौकिकः, लोकोत्तरस्तु विधिना प्रातरशनाद्यर्थमटनादिना क्षेत्रभावनम्, अन्ये तु योनिप्राभृतप्रयोगतः काञ्चनपातनोत्कर्षलक्षणमेव सङ्घातप्रयोजनादौ द्रव्योपायं व्याचक्षते, विद्यादिभिश्च दुस्तराध्वतरणलक्षणं क्षेत्रोपायमिति । अत्र च प्रथमग्रहणपदार्थोऽतिरिच्यमान इवाभाति, पाठान्तरं वा 'धाउव्वाओ भणिओ'त्ति अत्र च कथञ्चिदविरोध एवेति गाथार्थः ॥ नि०- कालो अ नालियाइहिं होइ भावंमि पंडिओ अभओ । चोरस्स कए नहिं वकुमारिं परिकहेइ ।। ६२ ।। कालश्च नालिकादिभिः ज्ञायत इति शेषः, नालिका घटिका आदिशब्दाच्छङ्कवादिपरिग्रहः, ततश्च नालिकादयः कालोपायो लौकिकः, लोकोत्तरस्तु सूत्रपरावर्त्तनादिभिस्तथा भवति, भावे चेति द्वारपरामर्शत्वाद्भावोपाये विचार्ये निदर्शनम्, क इत्याह- पण्डितो विद्वान् अभय: अभयकुमारस्तथा चाह- चौरनिमित्तं नर्त्तक्यां (नाट्ये) वड (वृद्ध) कुमारीम्, किं ?, त्रिकाल - गोचरसूत्रप्रदर्शनार्थमाह- परिकथयति , ततश्च यथा तेनोपायतश्चौरभावो विज्ञातः एवं शिक्षकादीनां तेन तेन विधिनोपायत एव भावो ज्ञातव्य इति गाथार्थः ।। नवरं भावोवाए उदाहरणं- रायगिहं णाम णयरं, तत्थ सेणिओ राया, सो भज्जाए भणिओ ® तक्रखरण्टितचीवरादि वि. प्र. भावोपाये उदाहरणं राजगृहं नाम नगरम्, तत्र श्रेणिको राजा स भार्यया भणितः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् १ निर्युक्तिः ६२ कालोपायोभावोपायश्च अभयकुमार स्वचौरभावविज्ञानोदा हरणच ।। ६५ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy