________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृचियुतम् HE४॥
प्रथममध्ययन द्रुमपुष्पिका, सूत्रम्
६०-६१
द्वारचरणकरणानुयोग
द्रव्य
संसारमोक्षाणां तत्रालादानुभवरूपं क्षणं सुखम्, तापानुभवरूपं दुःखम्, तिर्यग्नरनारकामरभवसंसरणरूपः संसारः, अष्टप्रकारकर्मबन्धवियोगो मोक्षः, तत्र कथं पुनस्तेषां वादिनां सुखाद्यभावः?, आत्मनोऽप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वाद्, अन्यथात्वापरिणते: सदैव नारकत्वादिभावाद्, अपरित्यक्ताप्रसन्नत्वे पूर्वरूपस्य च प्रसन्नत्वेनाभवनाद्, एवं शेषेष्वपि भावनीयमिति:
नियुक्तिः गाथार्थः।। ततश्चैवं
द्वितीयोपायनि०-सुहदुक्खसंपओगोन विजई निचवायपक्खंमि। एगंतुच्छेअंमि असुहदुक्खविगप्पणमजुत्तं ।। ६० ।। सुखदुःखसंप्रयोगः, सम्यक् संगतो वा प्रयोगः संप्रयोगः अकल्पित इत्यर्थः न विद्यते नास्ति न घटत इत्यर्थः, क्व?-8 नित्यवादपक्षे नित्यवादाभ्युपगमे संप्रयोगोन विद्यते, कल्पितस्तु भवत्येव, यथाऽऽहुर्नित्यवादिनः- प्रकृत्युपधानतः पुरुषस्य सुखदुःखे
मधिकृत्यस्तः, स्फटिके रक्ततादिवद् बुद्धिप्रतिबिम्बाद्वाऽन्ये इति, कल्पितत्वं चास्य आत्मनस्तत्त्वत एव तथापरिणतिमन्तरेण सुखाद्यभावाद् क्षेत्रोपायः। उपधानसन्निधावप्यन्धोपले रक्ततादिवत्, तदभ्युपगमे चाभ्युपगमक्षतिः, बुद्धिप्रतिबिम्बपक्षेऽप्यविचलितस्यात्मनः सदैवैकस्वभावत्वात् सदैवैकरूपप्रतिबिम्बापत्तेः, स्वभावभेदाभ्युपगमे चानित्यत्वप्रसङ्ग इति ।मा भूदनित्यैकान्तग्रह इत्यत आहएकान्तेन' सर्वथा उत्-प्राबल्येन छेदो- विनाशः एकान्तोच्छेदः- निरन्वयो नाश इत्यर्थः, अस्मिँश्च किं?-सुखदुःखयोर्विकल्पनं । सुखदुःखविकल्पनं अयुक्तं अघटमानकम्, अयमत्र भावार्थः- एकान्तोच्छेदेऽपि सुखाद्यनुभवितुस्तत्क्षण एव सर्वथोच्छेदादहेतुकत्वात्तदुत्तरक्षणस्योत्पत्तिरपि न युज्यते, कुतः पुनस्तद्विकल्पनमिति गाथार्थः ।। उक्तोऽपायः, साम्प्रतमुपाय उच्यते-तत्रोप
॥६४॥ सामीप्येन(आयः) विवक्षितवस्तुनोऽविकललाभहेतुत्वाद्वस्तुनो लाभ एवोपाय:- अभिलषितवस्त्ववाप्तये व्यापारविशेष । इत्यर्थः, असावपि चतुर्विध एव, तथा चाह
For Private and Personal Use Only