________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम्
॥५५ ॥
www.kobatirth.org
चरितं च कल्पितं चे (वे ) ति द्विविधमुदाहरणम्, तत्र चरितमभिधीयते यद्वृत्तम्, तेन कस्यचिद् दान्तिकार्थप्रतिपत्तिर्जन्यते, तद्यथा दुःखाय निदानम्, यथा ब्रह्मदत्तस्य । तथा कल्पितं स्वबुद्धिकल्पनाशिल्पनिर्मितमुच्यते, तेन च कस्यचिद्दान्तिकार्थप्रत्तिपत्तिर्जन्यते, यथा- पिष्पलपत्रैरनित्यतायामिति, उक्तं च- जह तुब्भे तह अम्हे तुब्भेवि अ होहिहा जहा अम्हे। अप्पाहेइ पडतं पंडुअपत्तं किसलयाणं ॥ १ ॥ णवि अत्थि गवि अ होही उल्लावो किसलपंडुपत्ताणं। उवमा खलु एस कया भविअजणविबोहणट्टाए ।। २ ।। इत्यादि । आह- इदमुदाहरणं दृष्टान्त उच्यते, तस्य च साध्यानुगमादि लक्षणमिति, उक्तं च साध्येनानुगमो हेतोः, साध्याभावे च नास्तिता । ख्याप्यते यत्र दृष्टान्तः, स साधर्म्येतरो द्विधा ॥ १ ॥ अस्य पुनस्तल्लक्षणाभावात् कथमुदाहरणत्वमिति ?, अत्रोच्यते, तदपि कथञ्चित्साध्यानुगमादिना दान्तिकार्थप्रतिपत्तिजनकत्वात्फलत उदाहरणम्, इहापि च साऽस्त्येवेतिकृत्वा किं नोदाहरणतेति ? साध्यानुगमादि लक्षणमपि सामान्यविशेषोभयरूपानन्तधर्मात्मके वस्तुनि सति कथञ्चिद्भेदवादिन एव युज्यते, नान्यस्य, एकान्तभेदाभेदयोस्तदभावादिति, तथाहि सर्वथा प्रतिज्ञादृष्टान्तार्थभेदवादिनोऽनुगमतः खलु घटादौ कृतकत्वादेरनित्यत्वादिप्रतिबन्धदर्शनमपि प्रकृतानुयोग्येव, भिन्नवस्तुधर्मत्वात्, सामान्यस्य च परिकल्पितत्वादसत्त्वाद्, इत्थमपि च तद्बलेन साध्यार्थप्रतिबन्धकल्पनायां सत्यामतिप्रसङ्गादित्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति, एवं सर्वथा अभेदवादिनोऽप्येकत्वादेव तदभावो भावनीय इति, अनेकान्तवादिनस्त्वनन्तधर्मात्मके वस्तुनि तत्तद्धर्मसामर्थ्यात्ततद्वस्तुनः प्रतिबन्धबलेनैव तस्य तस्य वस्तुनो गमकं भवति, अन्यथा ततस्तस्मिंस्तत्प्रतिपत्त्यसम्भव इति कृतं प्रसङ्गेन, प्रकृतं • यथा यूयं तथा वयं यूयमपि भविष्यथ यथा वयम्। उपालभते पतत् पाण्डुरपत्रं किशलयान् ॥ १ ॥ नैवास्ति नैव भविष्यति उल्लापः किशलयपाण्डुरपत्रयोः । उपमा खल्वेषा कृता भविकजनविबोधनार्थाय ॥ २ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रथममध्ययनं द्रुमपुष्पिका,
सूत्रम् १ निर्युक्तिः ५३
चरितकल्पितो
दाहरणं
तदृष्टान्तश्च ।
।। ५५ ।।