SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥५४॥ स्वरूपाभिधित्सयाऽऽह प्रथममध्ययनं नि०- तत्थाहरणं दुविहं चउव्विहं होइ एकमेक्कं तु । हेऊ चउव्विहो खलु तेण उ साहिजए अत्थो ।। ५१॥ दुमपुष्पिका, सूत्रम् १ । तत्रशब्दो वाक्योपन्यासार्थो निर्धारणार्थो वा, उदाहरणं पूर्ववत्, तच्च मूलभेदतो द्विविधं द्विप्रकारम्, चरितकल्पितभेदात् । नियुक्तिः उत्तरभेदतस्तु चतुर्विधं भवति, तयोर्द्वयोरेकैकमुदाहरणमाहरण १ तद्देश २ तद्दोषो ३ पन्यास ४ भेदात्, तच्च वक्ष्यामः, तथा ५१-५२ हिनोति- गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुः, स चतुर्विधः चतुष्प्रकारः, खलुशब्दो व्यक्तिभेदादनेकविधश्चेति । उदाहरणहेतु विशेषणार्थः, तुशब्दस्य पुनःशब्दार्थत्वात् तेन पुनर्हेतुना साध्यार्थाविनाभावबलेन साध्यते निष्पाद्यते ज्ञाप्यते वा अर्थः प्रतिज्ञार्थ । उदाहरण। इति गाथार्थः ।। साम्प्रतं नानादेशजविनेयगणहितायोदाहरणैकार्थिकप्रतिपिपादयिषयाऽऽह कार्थिकाचा नियुक्ति: ५३ नि०-नायमुदाहरणंतिअ दिवंतोवम निदरिसणं तहय। एगटुं तं दुविहं चउव्विहं चेव नायव्वं ।। ५२। चरितज्ञायतेऽस्मिन् सति दान्तिकोऽर्थ इति ज्ञातम्, अधिकरणे निष्ठाप्रत्ययः, तथोदाह्रियते प्राबल्येन गृह्यतेऽनेन दान्तिकोऽर्थ । कल्पितो इति उदाहरणम्, दृष्टमर्थमन्तं नयतीति दृष्टान्तः, अतीन्द्रियप्रमाणादृष्टं संवेदननिष्ठां नयतीत्यर्थः, उपमीयतेऽनेन दार्टान्तिकोऽर्थ इत्युपमानम्, तथा च निदर्शनं निश्चयेन दर्श्यतेऽनेन दान्तिक एवार्थ इति निदर्शनम्, एगह ति इदमेकार्थं एकार्थिकजातम्, इदं च तत्प्रागुपन्यस्तं द्विविधमुदाहरणं चतुर्विधं चैवाङ्गीकृत्य ज्ञातव्यं प्रत्येकमपि, सामान्यविशेषयोः कथञ्चिदेकत्वाद्, अत एव सामान्यस्यापि प्राधान्यख्यापनार्थमेकवचनाभिधानं एकार्थमिति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयाद्, गमनिकामात्रमेवैतदिति गाथार्थः ।। साम्प्रतं यदुक्तं तत्रोदाहरणं द्विविध' मित्यादि, तद् द्वैविध्यादिप्रदर्शनायाह नि०- चरिअंच कप्पिअंवा दुविहं तत्तो चउविहेक्केकं । आहरणे तसे तद्दोसे चेवुवन्नासे ।। ५३।। दाहरण तहष्टान्तवा For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy