________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥५३॥
प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् नियुक्ति: ५० पजावयवदशावयवाः।
स्यान्तकारणं किं स्यात्? ॥१॥इत्यादि, तथापि तथाविधश्रोत्रपेक्षया तत्रापि भण्यते क्वचिदुदाहरणम, तथा आश्रित्य तु श्रोतारं हेतुरपि क्वचिद्भण्यते, न तु नियोगतः, तुशब्दः श्रोतृविशेषणार्थः, किंविशिष्टं श्रोतारं?-पटुधियं मध्यमधियं च, न तु मन्दधियमिति, तथाहि-पटुधियो हेतुमात्रोपन्यासादेव प्रभूतार्थाय गतिर्भवति, मध्यमधीस्तु तेनैव बोध्यते, न त्वितर इत्यर्थः।। तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शनमुदाहरणमुच्यते, दृष्टान्त इत्यर्थः, साध्यधर्मान्वयव्यतिरेकलक्षणश्च हेतुः, इह च हेतुमुअल्लङ्य प्रथममुदाहरणाभिधानं न्यायानुगतत्वात्तद्बलेनैव हेतोःसाध्यार्थसाधकत्वोपपत्तेः क्वचिद्धेतुमनभिधाय दृष्टान्त एवोच्यत इति न्यायप्रदर्शनार्थ वा, यथा गतिपरिणामपरिणतानां जीवपद्गलानां गत्यपष्टम्भको धर्मास्तिकायः, चक्षुष्मतो ज्ञानस्य दीपवत्, उक्तं च- जीवानां पुद्गलानां च, गत्युपष्टम्भकारणम् । धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा ॥११॥ तथा क्वचिद्धेतुरेव केवलोऽभिधीयते न दृष्टान्तः, यथा मदीयोऽयमश्वो, विशिष्टचिह्नोपलब्ध्यन्यथानुपपत्तेरित्यलं प्रसङ्गेनेति गाथार्थः ।। तथा
नि०- कत्थई पंचावयवं दसहा वा सव्वहान पडिसिद्धं । न य पुण सव्वं भण्णइ हंदी सविआरमक्खायं ।। ५०॥ श्रोतारमेवाङ्गीकृत्य क्वचित्पश्चावयवं दशधा वे ति क्वचिद्दशावयवम्, सर्वथा गुरुश्रोत्रपेक्षया न प्रतिषिद्धमुदाहरणाद्यभिधानमिति वाक्यशेषः, यद्यपि च न प्रतिषिद्धं तथाप्यविशेषेणैव, न च पुनः सर्वं भण्यते उदाहरणादि, किमित्यत आह-हंदी सविआरमक्खायं हन्दीत्युपप्रदर्शने, किमुपप्रदर्शयति?, यस्मादिहान्यत्र चशास्त्रान्तरे 'सविचारं सप्रतिपक्षमाख्यातं साकल्यत उदाहरणाद्यभिधानमिति गम्यते, पञ्चावयवाश्च प्रतिज्ञादयः, यथोक्तं- प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः (न्यायद०११-३२) । दश पुनः प्रतिज्ञाविभक्त्यादयः, वक्ष्यति च- ते उपइण्णविहत्ती इत्यादि । प्रयोगाश्चैतेषां लाघवार्थमिहैव स्वस्थाने दर्शयिष्याम इति गाथार्थः ।। साम्प्रतं यदुक्तं- जिणवयण सिद्ध चेव भण्णई कत्थई उदाहरणं इत्यादि, तत्रोदाहरणहेत्वोः
॥५३॥
For Private and Personal Use Only