________________
Shri Mahavir Jain Aradhana Kendra
www.kabalirth.org
Acharya Shri Kailassagarsur Gyarmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम्
अभ्यन्तरतप:प्रतिपादनम्।
पवयणओ, एगो लिंगओ वि पवयणओ वि, एगोण लिंगओण पवयणओ, कुलगणसंघा पसिद्धा चेव । इदानी सज्झाओ, प्रथममध्ययनं सो अ पंचविहो-वायणा पुच्छणा परिअट्टणा अणुप्पेहा धम्मकहा, वायणा नाम सिस्सस्स अज्झावणं, पुच्छणा सुत्तस्स।
दुमपुष्पिका,
सूत्रम् १ अत्थस्स वा हवइ, परिअट्टणा नाम परिअट्टणंति वा अब्भस्सणंति वा गुणणंति एगट्ठा, अणुप्पेहा नाम जो मणसा परिअट्टेइ ।।
नियुक्ति: ४८ णो वायाए, धम्मकहाणाम जो अहिंसाइलक्खणं सव्वण्णुपणीअंधम्म अणुओगंवा कहेइ, एसा धम्मकहा। गतः स्वाध्यायः, इदानीं ध्यानमुच्यते- तत्पुनरा दिभेदाच्चतुर्विधम्, तद्यथा-आर्तध्यानं रौद्रध्यानं धर्मध्यानं शुक्लध्यानं चेति, तत्र राज्योपभोगशयनासनवाहनेषु, स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति मोहाद्, ध्यानं तदातमिति तत्प्रवदन्ति तज्ज्ञाः॥१॥
संछेदनैर्दहनभञ्जनमारणैश्व, बन्धप्रहारदमनैर्विनिकृन्तनैश्च । यो याति रागमुपयाति च नानुकम्पां, ध्यानं तुरौद्रमिति तत्प्रवदन्ति तज्ज्ञाः॥ २॥ सूत्रार्थसाधनमहाव्रतधारणेषु, बन्धप्रमोक्षगमनागमहेतुचिन्ता। पञ्चेन्द्रियव्युपरमश्च दया च भूते, ध्यानं तु धर्ममिति तत्प्रवदन्ति । तज्ज्ञाः॥३॥ यस्येन्द्रियाणि विषयेषु पराङ्गखानि, सङ्कल्पकल्पनविकल्पविकारदोषैः । योगैः सदा त्रिभिरहो निभृतान्तरात्मा, ध्यानोत्तम प्रवरशुक्लमिदं वदन्ति ॥ ४॥ आर्ते तिर्यगितिस्तथा गतिरधो ध्याने तु रौद्रे सदा, धर्मे देवगतिः शुभं बत फलं शुक्ले तु जन्मक्षयः। तस्माद् व्याधिरुगन्तके हितकरे संसारनिर्वाहके, ध्याने शुक्लवरे रजःप्रमथने कुर्यात् प्रयत्नं बुधः॥५॥ इति । उक्तं समासतो ध्यानम्, विस्तरतस्तु ध्यानशतकादवसेयमिति।साम्प्रतं व्युत्सर्गः,सच द्विधा- द्रव्यतो भावतः, द्रव्यतश्चतुर्धा- गणशरीरोपध्याहारभेदात्,।
- प्रवचनतः, एको लिङ्गतोऽपि प्रवचनतोऽपि, एको न लिङ्गतो न प्रवचनतः, कुलगणसवाः प्रसिद्धाश्चैव । इदानीं स्वाध्यायः, स च पश्चविधः- वाचना प्रच्छना ॐ परिवर्तनाऽनुप्रेक्षा धर्मकथा । वाचना नाम शिष्यस्याध्यापनम् । प्रच्छना सूत्रस्य अर्थस्य वा भवति । परिवर्तना नाम परिवर्तनमिति वा अभ्यसनमिति वा गुणनमिति वा 8 एकार्थाः । अनुप्रेक्षा नाम यो मनसा परिवर्त्तयति न वाचा। धर्मकथा नाम योऽहिंसादिलक्षणं सर्वज्ञप्रणीतं धर्ममनुयोग वा कथयति, एषा धर्मकथा ।
For Private and Personal Use Only