________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasagarsun Gyanmandir
श्रीदशवेकालिक
हारि० वृत्तियुतम् ॥३९॥
प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् १ नियुक्तिः४५ हिंसाऽहिंसास्वरूपः।
निर्देश' इतिकृत्वा हिंसाविपक्षतोऽहिंसा, तां प्रतिपादयन्नाह___नि०- हिंसाए पडिवक्खो होइ अहिंसा चउव्विहा सा उ। दव्वे भावे अतहा अहिंसऽजीवाइवाओत्ति ॥४५॥
तत्र प्रमत्तयोगात्त् प्राणव्यपरोपणं हिंसा, अस्याः हिंसायाः किं?- प्रतिकूलः पक्षः प्रतिपक्षः- अप्रमत्ततया शुभयोगपूर्वकं । प्राणाव्यपरोपणमित्यर्थः, किं?- भवत्यहिंसेति, तत्र चतुर्विधा चतुष्प्रकारा अहिंसा, दव्वे भावे अत्ति द्रव्यतो भावतश्चेत्येको । भङ्गः, तथा द्रव्यतो नो भावतः तथा न द्रव्यतो भावतः, तथा न द्रव्यतो न भावत इति तथाशब्दसमुचितो भङ्गत्रयोपन्यासः, अनक्तसमच्चयार्थकत्वादस्येति, उक्तं च तथा समचयनिर्देशावधारणसादृश्यप्रकारवचनेवित्यादि. किं तत्रायं भडकभावार्थ:-- द्रव्यतो भावतश्चेति, जहा केइ पुरिसे मिअवहपरिणामपरिणए मियं पासित्ता आयन्नाइड्डियकोदंडजीवे सरं णिसिरिजा, से अमिए तेण सरेण विद्धे मए सिआ, एसा दव्वओ हिंसा भावओवि ।या पुनर्द्रव्यतो न भावतःसा खल्वीर्यादिसमितस्य साधो: कारणे गच्छत इति, उक्तं च- उच्चालिअम्मि पाए इरियासमिअस्स संकमट्ठाए। वावजेज कुलिंगी मरिज तं जोगमासज्जा॥१॥ न य तस्स तण्णिमित्तो बंधो सहमो वि देसिओ समए। जम्हा सो अपमत्तो सा य पमाओत्ति निद्दिट्ठा ॥२॥ इत्यादि। या पुनर्भावतो न द्रव्यतः, सेयं-जहा केवि पुरिसे मंदमंदप्पगासप्पदेसे संठियं ईसिवलिअकार्य रज्जु पासित्ता एस अहित्ति तव्वहपरिणामपरिणए णिकहियासिपत्ते
0 यथा कश्चित् पुरुषो मृगवधपरिणामपरिणतः मृगं दृष्ट्रा आकर्णाकृष्टकोदण्डजीवः शरं निसृजेत्, स च मृगस्तेन शरेण विद्धो मृतः स्यात्, एषा द्रव्यतो हिंसा भाव तोऽपि। 0 उचालिते पादे ईर्यासमितेन संक्रमणार्थम् । व्यापद्येत कुलिङ्गी म्रियेत तं योगमासाद्य ॥ १॥ न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशितः समये । यस्मात्सोऽप्रमत्तः सा च प्रमाद इति निर्दिष्टा ॥ २॥ 0 यथा कश्चित्पुरुषः मन्दमन्दप्रकाशदेशे संस्थितामीषद्वलितकायं रजु दृष्ट्रा एषोऽहिरिति तद्वधपरिणामपरिणतः निष्कृष्टासिपत्रो द्रुतं द्रुतं छिन्द्यात्, एषा भावतो हिंसा न द्रव्यतः।* द्वीन्द्रियादिः वि. प. ।
॥३९॥
For Private and Personal Use Only