________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ॥३७॥
प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् १ नियुक्ति:४३ धर्मनिक्षेपे लोकोत्तरो भावधर्मः।
द्विविधो- द्विप्रकारो लोकोत्तरो लोकप्रधानो, धर्म इति वर्त्तते, तथा चाह- श्रुतधर्मः खलु चारित्रधर्मश्च, तत्र श्रुतं- द्वादशाङ्गं तस्य धर्मः श्रुतधर्मः, खलुशब्दो विशेषणार्थः, किं विशिनष्टि?- स हि वाचनादिभेदाच्चित्र इति, आह च- श्रुतधर्मः स्वाध्यायःवाचनादिरूपः, तत्त्वचिन्तायां धर्महेतुत्वाद्धर्म इति । तथा चारित्रधर्मश्च, तत्र चर गतिभक्षणयोः इत्यस्य अर्तिलूधूसूखनसहचर इनन् (पा०३-२-१८४) इतीत्रन्प्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपं तस्य भावचारित्रम्, अशेषकर्मक्षयाय चेष्टेत्यर्थः, ततश्चारित्रमेव धर्मः चारित्रधर्म इति । चः समुच्चये। अयं च श्रमणधर्म एवेत्याहचारित्रधर्मः श्रमणधर्म इति, तत्र श्राम्यतीति श्रमणः कृत्यल्युटो बहुलम् (पा०३-३-११३) इति वचनात् कर्त्तरिल्युट, श्राम्यतीतितपस्यतीति, एतदुक्तं भवति-प्रव्रज्यादिवसादारभ्य सकलसावद्ययोगविरतौ गुरूपदेशादनशनादि यथाशक्त्याऽऽ प्राणोपरमात्तपश्चरतीति, उक्तं च- यःसमः सर्वभूतेषु, त्रसेषु स्थावरेषु च। तपश्चरति शुद्धात्मा, श्रमणोऽसौ प्रकीर्तितः ॥ १॥ इति, तस्य धर्मः स्वभावः श्रमणधर्मः, सच क्षान्त्यादिलक्षणों वक्ष्यमाण इति गाथार्थः । उक्तो धर्मः, साम्प्रतं मङ्गलस्यावसरः, तच्च प्राग्निरुपितशब्दार्थमेव, तत्पुनर्नामादिभेदतश्चतुर्धा, तत्र नामस्थापने क्षुण्णत्वात्साक्षादनादृत्य द्रव्यभावमङ्गलाभिधित्सयाऽऽह
Oखमा मद्दवं अजव सोयं सर्च संजमो तवो चाओ अकिंचणियत्तणं बंभचेरमिति । तत्थ खमा आकुछस्स वा तालियस्स वा अहियासेतस्स कम्मखओ भवइ, अणहियार्सेतस्स कम्मबंधो भवइ, तम्हा कोहस्स निग्गहो कायब्वो, उदयपत्तस्स वा विफलीकरणं, एस खमत्ति वा तितिक्खत्ति वा कोधनिग्गहेति वा एगट्टा । मद्दवं नाम जाइकुलादीहीणस्स अपरिभवणसीलत्तणं जहाऽहं उत्तमजातीओ एस नीयजातीओत्ति मदो न कायव्यो, एवं च करेमाणस्स कम्मनिजरा भवइ, अकरेंतस्स य कम्मोवचयो भवइ, माणस्स उद्दिनस्स निरोहो उदयपत्तस्स विफलीकरणमिति । अज्जवं नाम उजुगत्तणति वा अकुडिलत्तणंति वा एवं च कुव्वमाणस्स कम्मनिज्जरा भवइ, अकुव्वमाणस्स य कम्मोवचयो भवइ । मायाए उदंतीए णीरोहो कायचो उदिण्णाए विफलीकरणंति। सोए नाम अलुद्धया धम्मोवगरणेसुवि, एवं च कुव्वमाणस्स कम्मनिज्जरा भवति, तत्र संयमादिना क्षान्तिप्रमुखेन मूलोत्तरगुणाख्यानम् ।
॥३७॥
For Private and Personal Use Only