________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम्
॥ ३६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नि०- गम्मपसुदेसरचे पुरवरगामगणगोट्ठिराईणं । सावज्जो उ कुतित्थियधम्मो न जिणेहि उ पसत्थो ।। ४२ ।। तत्र गम्यधर्मो - यथा दक्षिणापथे मातुलदुहिता गम्या उत्तरापथे पुनरगम्यैव, एवं भक्ष्याभक्ष्यपेयापेयविभाषा कर्त्तव्येति, पशुधर्मो- मात्रादिगमनलक्षणः, देशधर्मो देशाचारः, स च प्रतिनियत एव नेपथ्यादिलिङ्गभेद इति, राज्यधर्म:- प्रतिराज्यं भिन्नः, स च करादिः, पुरवरधर्म:- प्रतिपुरवरं भिन्नः क्वचित्किञ्चिद्विशिष्टोऽपि पौरभाषाप्रदानादिलक्षणः सद्वितीया योषिगेहान्तरं गच्छतीत्यादिलक्षणो वा, ग्रामधर्मः- प्रतिग्रामं भिन्नः, गणधर्मो- मल्लादिगणव्यवस्था, यथा समपादपातेन विषमग्रह इत्यादि, गोष्ठीधर्म्मो - गोष्ठीव्यवस्था, इह च समवयसां समुदायो गोष्ठी, तद्व्यवस्था पुनर्वसन्तादाविदं कर्त्तव्यमित्यादिलक्षणा, राजधर्मो- दुष्टेतरनिग्रहपरिपालनादिरिति । भावधर्मता चास्य गम्यादीनां विवक्षया भावरूपत्वात् द्रव्यपर्यायत्वाद्वा, तस्यैव च द्रव्यानपेक्षस्य विवक्षितत्वात्, लौकिकैर्वा भावधर्मत्वेनेष्टत्वात्, देशराज्यादिभेदश्चैकदेश एवानेकराज्यसम्भव इत्येवं स्वधिया भाव्यम्, इत्युक्तो लौकिकः, कुप्रावचनिक उच्यते- असावपि सावद्यप्रायो लौकिककल्प एव, यत आह- सावज्जो उइत्यादि, अवद्यं पापं सहावद्येन सावद्यम्, तुशब्दस्त्वेवकारार्थः, स चावधारणे, सावद्य एव, कः ? - कुतीर्थिकधर्मश्वरकपरिव्राजकादिधर्म इत्यर्थः, कुत एतदित्याह - न जिनैः अर्हद्भिः तुशब्दादन्यैश्च प्रेक्षापूर्वकारिभिः प्रशंसितः स्तुतः, सारम्भपरिग्रहत्वात्, अत्र बहु वक्तव्यम्, तत्तु नोच्यते, गमनिकामात्रफलत्वात् प्रस्तुतव्यापारस्येति गाथार्थः । उक्तः कुप्रावचनिकः, साम्प्रतं लोकोत्तरं प्रतिपादयन्नाह
नि०- दुविहो लोगुत्तरिओ सुअधम्मो खलु चरित्तधम्मो अ । सुअधम्मो सज्झाओ चरित्तधम्मो समणधम्मो ॥ ४३ ॥
पिबंति समवाएणं इति चूर्णिः । अत्तणेऽवि अवराहेण खामिज चू० ।
प्रयासस्येति (प्र०) ।
For Private and Personal Use Only
प्रथममध्ययनं डुमपुष्पिका,
सूत्रम् १
| निर्युक्तिः
४१-४२
धर्मनिक्षेपेऽस्तिकाया
दिधर्मस्व
रूप: धर्मनिक्षेपे भावधर्मभेदाः ।
निर्युक्ति: ४३ धर्मनिक्षेपे लोकोत्तरो भावधर्मः ।
।। ३६ ।।