SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsun Gyanmandir श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ||३५|| सूत्रम् १ ४१-४२ स्तिकाया रूप: धर्म इह त्रिविधोऽधिकृतो धर्मः, तद्यथा- द्रव्यधर्म:अस्तिकायधर्मः प्रचारधर्मश्चेति । तत्र द्रव्यं चेत्यनेन धर्मधर्मिणोः कथञ्चिदभेदाद् ।। प्रथममध्ययन द्रव्यधर्ममाह, तथास्तिकाय इत्यनेन तु सूचनात् सूत्रमितिकृत्वा उपलक्षणत्वादवयव एव समुदायशब्दोपचारादस्तिकायधर्म दुमपुष्पिका, इति, प्रचारधर्मश्चेत्यनेन ग्रन्थेन द्रव्यधर्मदेशमाह । भावधर्मश्चेत्यनेन तु भावधर्मस्य स्वरूपमाह ।। साम्प्रतं प्रथमोद्दिष्टद्रव्य- नियुक्तिः धर्मस्वरूपाभिधित्सयाऽऽह- द्रव्यस्य पर्याया-ये उत्पादविगमादयस्ते धर्मास्तस्य द्रव्यस्य, ततश्च द्रव्यस्य धर्मा द्रव्यधर्मा इत्यन्या धर्मनिक्षेपेसंसक्तैकद्रव्यधर्माभावप्रदर्शनार्थो बहुवचननिर्देश इति गाथार्थः ।। इदानीमस्तिकायादिधर्मस्वरूपप्रतिपिपादयिषयाऽऽहनि०-धम्मत्थिकायधम्मो पयारधम्मो य विसयधम्मो य। लोइयकुप्पावयणिअलोगुत्तर लोगऽणेगविहो ॥४१॥ दिधर्मस्वधर्मग्रहणादू धर्मास्तिकायपरिग्रहः, ततश्च धर्मास्तिकाय एव गत्युपष्टम्भकोऽसंख्येयप्रदेशात्मकः अस्तिकायधर्म इति । अन्ये निक्षेपे भावतुव्याचक्षते-धर्मास्तिकायादिस्वभावोऽस्तिकायधर्म इति, एतच्चायुक्तम्, तत्र धर्मास्तिकायादीनां द्रव्यत्वेन तस्य द्रव्यधर्माव्यतिरेकादिति । तथा प्रचारधर्मश्च विषयधर्म एव, तुशब्दस्यैवकारार्थत्वात्, तत्र प्रचरणं प्रचारः, प्रकर्षगमनमित्यर्थः, स एवात्मस्वभावत्वाद्धर्मः प्रचारधर्मः, सच किं?- विषीदन्त्येतेषु प्राणिन इति विषया- रूपादयस्तद्धर्म एव, तथा च वस्तुतो विषयधर्म एवायं यद्रागादिमान् सत्त्वस्तेषु प्रवर्त्तत इति, चक्षुरादीन्द्रियवशतो रूपादिषु प्रवृत्तिः प्रचारधर्म इति हृदयम्, प्रधानसंसारनिबन्धनत्वेन चास्य प्राधान्यख्यापनार्थं द्रव्यधर्मात् पृथगुपन्यासः । इदानीं भावधर्मः, स च लौकिकादिभेदभिन्न इति, आह च-लौकिकः कुप्रावचनिकः लोकोत्तरस्तु, अत्र लोगोऽणेगविहो त्ति लौकिकोऽनेकविध इति गाथार्थः । तदेवानेकविधत्वमुपदर्शयन्नाह 0 तेसिं पंचण्हवि धम्मो णाम सब्भावो लक्खणंति एगट्ठा इति चूर्णिः। जो जस्स इंदिअस्स विसओ इति चूर्णिः । धर्मभेदाः। For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy