________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
।। ३४ ।।
www.kobatirth.org
तथा क्वचिदपृष्टा एव सन्तः पूर्वपक्षमाशङ्कय किञ्चित्कथयन्त्याचार्याः, तत्प्रत्यवस्थानमिति गम्यते, किमर्थं कथयन्त्यत आहशिष्याणामेव हितार्थम्, तुशब्द एवकारार्थः, तथा विपुलतरं तु प्रभूततरं तु कथयन्ति पुच्छाए त्ति शिष्यप्रश्ने सति, पटुप्रज्ञोऽयमित्यवगमादिति गाथार्थः । एवं तावत्समासेन, व्याख्यालक्षणयोजना । कृतेयं प्रस्तुते सूत्रे, कार्यैवमपरेष्वपि ।। १ ।। ग्रन्थविस्तरदोषान्न, वक्ष्याम उपयोगि तु । वक्ष्यामः प्रतिसूत्रं तु यत् सूत्रस्पर्शिकाऽधुना ॥ २ ॥ प्रोच्यते ऽनुगमनिर्युक्तिविभागश्च विशेषतः । सामायिकबृहद्भाष्याज्ज्ञेयस्तत्रोदितं यतः ॥ ३ ॥ होइ कयत्थो वोत्तुं सपयच्छेअं सुअं सुआणुगमो। सुत्तालावगनासो नामादिण्णासविणिओगं ॥ १ ।। सुत्तप्फासि अनिज्जुत्तिणिओगो सेसओ पयत्थाइ । पायं सोच्चिय नेगमणयाइमयगोअरो होइ ॥ २ ॥ एवं सुत्ताणुगमो सुत्तालावगकओ अ निक्खेवो। सुत्तप्फासिअणिज्जुत्ति गया अ समगं तु वच्चन्ति ॥ ३ ॥ इत्यलं प्रसङ्गेन, गमनिकामात्रमेतत् । तत्र धर्मपदमधिकृत्य सूत्रस्पर्शिकनिर्युक्तिप्रतिपादनायाह
नि०- णामंठवणाधम्मो दव्वधम्मो अ भावधम्मो अ। एएसिं नाणत्तं वृच्छामि अहाणुपुव्वीए ।। ३९ ।।
णामंठवणाधम्मो त्ति अत्र धर्मशब्दः प्रत्येकमभिसम्बध्यते, नामधर्मः स्थापनाधर्मो द्रव्यधर्मो भावधर्मश्च । एतेषां नानात्वं भेदं वक्ष्ये अभिधास्ये यथानुपूर्व्या यथानुपरिपाट्येति गाथार्थः । साम्प्रतं नामस्थापने क्षुण्णत्वादागमतो नोआगमतश्च ज्ञात्रनुपयुक्तज्ञशरीरेतरभेदांश्चानादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यधर्माद्यभिधित्सयाऽऽह
नि० दव्वं च अत्थिकायप्पयारधम्मो अ भावधम्मो अ। दव्वस्स पजवा जे ते धम्मा तस्स दव्वस्स ॥ ४० ॥
भवति कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगमः । सूत्रालापकन्यासो नामादिन्यासविनियोगम् ॥ १ ॥ सूत्रस्पर्शिकनिर्युक्तिनियोगः शेषकः पदार्थादीन् । प्रायः स एव नैगमनयादिमतगोचरो भवति ॥ २ ॥ एवं सूत्रं सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः । सूत्रस्पर्शिकनिर्युक्तिः नयाश्च युगपत्तु व्रजन्ति ॥ ३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रथममध्ययनं
द्रुमपुष्पिका,
सूत्रम् १ निर्युक्तिः
३९-४०
धर्मपद
निक्षेपा:द्रव्यधर्मनिक्षेपाश्च ।
।। ३४ ।।