________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि०
वृत्तियुतम्
।। ३३ ।।
www.kobatirth.org
संयम इति रूपं भवति । तथा तप सन्तापेइत्यस्य धातोरसुन्प्रत्ययान्तस्य तप इति । तथा दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिस्वप्नकान्तिगतिषु इत्यस्य धातोरच्प्रत्ययान्तस्य जसि देवा इति भवति । अपिशब्दो निपातः । तदित्येतस्य सर्वनाम्नः पुंस्त्वविवक्षायां द्वितीयैकवचनं तमिति भवति । तथा नमसित्यस्य प्रातिपदिकस्य नमोवरिवश्चित्रङः क्यच् (पा०३-१-१९) इति क्यजन्तस्य लट् क्रियान्तादेशस्ततश्च नमस्यन्तीति भवति । तथा यदिति सर्वनाम्नः षष्ठ्यन्तस्य यस्येति भवति । धर्मः पूर्ववत् । सदेति सर्वस्मिन् काले सर्वैकान्यकिंयत्तदः काले दा (पा० ५-३-१५) इति दाप्रत्ययः सर्वस्य सोऽन्यतरस्यां दि (पा० ५(३-१६) इति स आदेशः सदा। तथा मन ज्ञाने इत्यस्य धातोरसुन्प्रत्ययान्तस्य मन इति भवति । इति पदानि । साम्प्रतं पदार्थ उच्यते- तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, तथा चोक्तं दुर्गतिप्रसृतान् जीवान्, यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद् धर्म इति स्मृतः ॥ १ ॥ मन्यते हितमनेनेति मङ्गलमित्यादि पूर्ववत्, उत्कृष्टं प्रधानम्, न हिंसा अहिंसा प्राणातिपातविरतिरित्यर्थः, संयमः आश्रवद्वारोपरमः, तापयत्यनेकभवोपात्तमष्टप्रकारं कर्मेति तपः - अनशनादि, दीव्यन्तीति देवाः क्रीडन्तीत्यादि भावार्थ:, अपिः सम्भावने देवा अपि मनुष्यास्तु सुतराम्, त मित्येवंविशिष्टं जीवम्, नमस्यन्तीति प्रकटार्थम्, यस्य जीवस्य किं ? - धर्मे प्रागभिहितस्वरूपे सदा सर्वकालं मन इत्यन्तःकरणम् । अयं पदार्थ इति । पदविग्रहस्तु परस्परापेक्षसमासभाक्पदपूर्वकत्वेनेह निबन्धनाभावान्न प्रदर्शित इति । चालनाप्रत्यवस्थाने तु प्रमाणचिन्तायां यथावसरमुपरिष्टाद् वक्ष्यामः । प्रवृत्तिः पुनस्तयोरमुनोपायेनेति प्रदर्शनायाह
नि०- कत्थड़ पुच्छइ सीसो कहिंचऽपुट्ठा कहंति आयरिया। सीसाणं तु हियट्ठा विपुलतरागं तु पुच्छाए ।। ३८ ।। क्वचित्किञ्चिदनवगच्छन् पृच्छति शिष्यः कथमेतदिति इयमेव चालना, गुरुकथनं प्रत्यवस्थानम्, इत्थमनयोः प्रवृत्तिः ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रथममध्ययनं
द्रुमपुष्पिका,
सूत्रम १
निर्युक्तिः ३८
चालनाप्रत्यव
स्थानयोः | प्रवृत्तिः ।
11 33 11