SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥३२॥ प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् संहितादिबड़िधाव्याख्या। पुनर्यथा तेनेदं नियूंढमिति तथा कथनेन कार्या इति । आह च-'जेण व जंच पडुच्चे' त्यादिना यत्पूर्वमुक्तं तदत्रैव क्रमप्राप्ताभिधानत्वात् तत्रायुक्तमिति, न, अपान्तरालोपोद्धातप्रतिपादकत्वेन तत्राप्युपयोगित्वादिति, आह- एवमपि महासम्बन्धपूर्वकत्वादपान्तरालोपोद्धातस्यात्रैवाभिधानं न्याय्यमिति, न, प्रस्तुतशास्त्रान्तरङ्गत्वेन तत्राप्युपयोगित्वादिति कृतं प्रसङ्गेन, अक्षर-. गमनिकामात्रफलत्वात्प्रयासस्य। गत उपोद्धातनिर्युक्त्यनुगमः, साम्प्रतं सूत्रस्पर्शिकनियुक्त्यनुगमावसरः, स च सूत्रे सति भवति, आह-यद्येवमिहोपन्यासोऽनर्थकः, न, नियुक्तिसामान्यादिति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्त एव, इह चास्खलितादिप्रकारं शुद्धं सूत्रमुच्चारणीयम्, तद्यथा-अस्खलितममिलितमव्यत्यानेडितमित्यादि यथाऽनुयोगद्वारेषु, ततस्तस्मिन्नुच्चरिते सति केषाञ्चिद्भगवतांसाधूनां केचनार्थाधिकारा अधिगता भवन्ति, केचन त्वनधिगताः, तत्रानधिगताधिगमायाल्पमतिविनेयानुग्रहाय च प्रतिपदं व्याख्येयम् । व्याख्यालक्षणं चेदं-संहिता च पदं चैव, पदार्थः पदविग्रहः । चालनाप्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा ॥ १॥ इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः । किं च प्रकृतं?, सूत्रानुगमे सूत्रमुच्चरणीयमिति, तच्चेदं सूत्रं धम्मो मंगलमुक्टि, अहिंसा संजमो तवो । देवावि तं नमसंति, जस्स धम्मे सया मणो ।। सूत्रम् १ ॥ तत्रास्खलितपदोच्चारणं संहिता, सा पाठसिद्धैव । अधुना पदानि- धर्मः मङ्गलं उत्कृष्ट अहिंसा संयमः तपः देवाः अपि तं । नमस्यन्ति यस्य धर्मे सदा मनः । तत्र धृञ् धारणे इत्यस्य धातोर्मप्रत्ययान्तस्येदं रूपं धर्म इति । मङ्गलरूपं पूर्ववत् । तथा कृष् । विलेखने इत्यस्य धातोरुत्पूर्वस्य निष्ठान्तस्येदं रूपमुत्कृष्टमिति । तथा तृहि हिसि हिंसायां इत्यस्य इदितो नुम् धातोः (पा०७-१५८) इति नुमि कृते स्त्र्यधिकारे टाबन्तस्य नञ्पूर्वस्येदं रूपं यदुताहिंसेति । तथा यमु उपरमेइत्यस्य धातोः संपूर्वस्याप्प्रत्ययान्तस्य For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy