________________
Shri Mahavir Jain Aradhana Kendra
श्रीदश
वैकालिकं
श्रीहारि० वृत्तियुतम्
॥ २२ ॥
www.kobatirth.org
Ο
धर्माभ्युपगमे च सत्यपि मा भूदभिनवप्रव्रजितस्याधृतेः सम्मोह इत्यतस्तन्निराकरणार्थाधिकारवदेव द्वितीयाध्ययनम्, आह च- द्वितीयेऽध्ययनेऽयमर्थाधिकारः धृत्या हेतुभूतया शक्यते कर्तुम्, जे इति पूरणार्थो निपातः एष जैनो धर्म इति उक्तं च- जस्स धिई तस्स तवो जस्स तवो तस्स सोग्गई सुलहा। जे अधितिमंत पुरिसा तवोवि खलु दुल्लहो तेसिं ॥ १ ॥ सा पुनर्धृतिराचारे कार्या न त्वनाचारे इत्यतस्तदर्थाधिकारवदेव तृतीयाध्ययनम्, आह च- तृतीयेऽध्ययने कोऽर्थाधिकार इत्यत आह- आचारगोचरा कथा आचारकथा, सा चेहैवाणुविस्तरभेदात्, य (अ)त आह- क्षुल्लिका लघ्वी, सा च आत्मसंयमोपायः संयमनं संयमः आत्मनः संयम आत्मसंयमस्तदुपायः, उक्तं च- तस्यात्मा संयमो यो हि, सदाचारे रतः सदा । स एव धृतिमान् धर्मस्तस्यैव च जिनोदितः ॥ ११ ॥ इति, स चाचारः षड्जीवनिकायगोचरः प्राय इत्यतश्चतुर्थमध्ययनम्, अथवाऽऽत्मसंयमः - तदन्यजीवपरिज्ञानपरिपालनमेव तत्त्वत इत्यतस्तदर्थाधिकारवदेव चतुर्थमध्ययनम्, आह च तथा जीवसंयमोऽपि च भवति चतुर्थेऽध्ययनेऽर्थाधिकार इति, अपिशब्दादात्मसंयमोऽपि तद्भावभाव्येव वर्त्तते, उक्तं च- छसु जीवनिकाएसुं, जे बुहे संजए सया। से चेव होइ विण्णेए, परमत्थेण संजए ॥ १ ॥ इत्यादि । एवमेव च धर्म्मः, स च देहे स्वस्थे सति सम्यक् पाल्यते, स चाहारमन्तरेण प्रायः स्वस्थो न भवति, स च सावद्येतरभेद इत्यनवद्यो ग्राह्य इत्यतस्तदर्थाधिकारवदेव पञ्चममध्ययनमिति, आह च- भिक्षाविशोधिस्तपः संयमस्य गुणकारिकैव पञ्चमेऽध्ययनेऽर्थाधिकार इति, तत्र भिक्षणं भिक्षा तस्याः विशोधि:- सावद्यपरिहारेणेतरस्वरूपकथनमित्यर्थः, तपःप्रधानः संयमस्तपःसंयमस्तस्य गुणकारिकैवेयं वर्त्तत इति, उक्तं च- से संजए समक्खाए, निरवज्जाहार जे विऊ। धम्मकायट्ठिए
® यस्य धृतिस्तस्य तपो यस्य तपस्तस्य सुगतिः सुलभा । येऽधृतिमन्तः पुरुषास्तपोऽपि खलु दुर्लभं तेषाम् ॥१ ॥ षट्टु जीवनिकायेषु यो बुधः संयतः सदा । स चैव भवति विज्ञेयः परमार्थेन संयतः ॥ १ ॥ स संयतः समाख्यातो निरवद्याहारं यो विद्वान् । धर्मकायस्थितः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रथममध्ययनं डुमपुष्पिका, निर्युक्तिः १९ 'यावन्ति 'ति
चतुर्थद्वानि
Callede
इति
निर्युक्तिः
२०-२३
'यथास्थापितानीति
पञ्चमद्वारे
संक्षेपणाध्ययनार्थाधिकाराः।
॥ २२ ॥