________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥२३॥
२०-२३ 'यथास्था
पञ्चमद्वारे संक्षेपणाध्ययनार्थाधिकाराः।
सम्म, सुहजोगाण साहए॥१॥ इत्यादि । गोचरप्रविष्टेन च सता स्वाचारं पृष्टेन तद्विदापि न महाजनसमक्षं तत्रैव विस्तरतः । प्रथममध्ययन कथयितव्यः, अपि तु आलये, गुरवो वा कथयन्तीति वक्तव्यमतस्तदर्थाधिकारवदेव षष्ठमध्ययनमिति, आह च
द्रुमपुष्पिका,
नियुक्तिः षष्ठेऽध्ययनेऽर्थाधिकारः आचारकथा साऽपि महती, न क्षुल्लिका, योग्या उचिता महाजनस्य विशिष्ट परिषद इत्यर्थः, वक्ष्यति च:-गोअरग्गपविढे उन निसिएज कत्थई। कहं च न पबंधिज्जा चिट्टित्ताण व संजए॥१॥ इत्यादि । आलयगतेनापि तेन गुरुणा
पितानीति (वा) वचनदोषगुणाभिज्ञेन निरवद्यवचसा कथयितव्य इत्यतस्तदर्थाधिकारवदेव सप्तममध्ययनमिति, आह च- क्यणविभत्ती । त्यादि, वचनस्य विभक्तिर्वचनविभक्तिः, विभजनं विभक्तिः- एवंभूतमनवद्यमित्थंभूतं च सावद्यमित्यर्थः, पुनःशब्दः शेषाअध्ययनार्थाधिकारेभ्यः अस्याधिकृतार्थाधिकारस्य विशेषणार्थ इति सप्तमेऽध्ययनेऽर्थाधिकार इति, उक्तं च- सावजणवजाणं वयणाणं जो ण याणइ विसेसं। वोत्तुं पि तस्स न खमं किमंग पुण देसणं काउं? ॥१॥ इत्यादि । तच्च निरवद्यं वचः आचारे । प्रणिहितस्य भवति इत्यतस्तदर्थाधिकारवदेवाष्टममध्ययनमिति, आह च- प्रणिधानमष्टमेऽध्ययनेऽर्थाधिकारत्वेन भणितं उक्तम्, प्रणिधानं नाम-विशिष्टश्चेतोधर्म इति, उक्तं च-पणिहाणरहियस्सेह, निरवजंपि भासियं । सावज्जतुलं विनेयं, अज्झत्थेणेह संवुडं।। ११॥ इत्यादि । आचारप्रणिहितश्च यथोचितविनयसम्पन्न एव भवतीत्यतस्तदर्थाधिकारवदेव नवममध्ययनमिति, आह चनवमेऽध्ययने विनयोऽर्थाधिकारः इति, उक्तं च-आयारपणिहाणमि, से सम्मं वहई बुहे। णाणादीणं विणीए जे, मोक्खट्टा णिव्विगिच्छए।
सम्यक् शुभयोगानां साधकः ॥ १॥ 0 गोचराग्रप्रविष्टस्तु न निषीदेत् कुत्रचित् । कथा च न प्रबध्नीयात् स्थित्वा वा संयतः ।। १।। 0 सावधानवद्यानां वचनानां यो न जानाति विशेषम् । वक्तुमपि तस्य नाह किमङ्ग पुनर्देशनां कर्तुम्?॥१॥प्रणिधानरहितस्येह निरवद्यमपि भाषितम् । सावद्यतुल्यं विज्ञेयमध्यात्मस्थेनेह संवृतम् ॥१॥ O आचारप्रणिधाने स सम्यक् वर्तते बुधः। ज्ञानादिषु विनीतो यो मोक्षार्थं निर्विचिकित्सः ॥१॥
॥ २३॥
For Private and Personal Use Only