SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। २९ ।। www.kobatirth.org प्रथमद्वितीयादीनि निर्व्यूढानि नवमस्यैव प्रत्याख्यानपूर्वस्य तृतीयवस्तुन इति । द्वितीयोऽपि चादेशः आदेशो विध्यन्तरं गणिपिटकाद् आचार्य सर्वस्वाद् द्वादशाङ्गाद् आचारादिलक्षणात् इदं दशकालिकम्, किलेति पूर्ववत्, निर्व्यूढमिति च, किमर्थं ?- मनकस्य उक्तस्वरूपस्य अनुग्रहार्थमिति गाथात्रयार्थः । एवं यत इति व्याख्यातम्, अधुना यावन्तीत्येतत्प्रतिपाद्यते नि०- दुमपुष्फियाइया खलु दस अज्झयणा सभिक्खुयं जाव अहिगारेवि य एत्तो वोच्छं पत्तेयमेक्वेक्वे ।। १९ ।। दारं ।। तत्र द्रुमपुष्पिकेति प्रथमाध्ययननाम, तदादीनि दशाध्ययनानि सभिक्खुयं जाव त्ति सभिक्ष्वध्ययनं यावत्, खलुशब्दो विशेषणार्थः, किं विशिनष्टि ? - तदन्ये द्वे चूडे, यावन्तीति व्याख्यातम् । यथा चेत्येतत् पुनरधिकाराभिधानद्वारेणैव च व्याचिख्यासुःसम्बन्धकत्वेनेदं गाथादलमाह- अधिकारानपि चातो वक्ष्ये प्रत्येकमेकैकस्मिन् अध्ययने, तत्रा अध्ययनपरिसमाप्तेर्योऽनुवर्त्तते सोऽधिकार इति गाथार्थः ।। Acharya Shri Kailassagarsuri Gyanmandir नि०- पढमे धम्मपसंसा सो य इहेव जिणसासणम्मित्ति। बिइए धिइए सक्का काउं जे एस धम्मोति ॥ २० ॥ नि० तइए आयारकहा उ खुड्डिया आयसंजमोवाओ। तह जीवसंजमोऽवि य होइ चउत्थंमि अज्झयणे ।। २१ ।। नि०- भिक्खविसोही तवसंजमस्स गुणकारिया उ पंचमए। छट्टे आयारकहा महई जोग्गा महयणस्स ।। २२ ।। नि०- वयणविभत्ती पुण सत्तमम्मि पणिहाणमद्रुमे भणियं । णवमे विणओ दसमे समाणियं एस भिक्खुत्ति ।। २३ । प्रथमाध्ययने कोऽर्थाधिकार इत्यत आह- धर्मप्रशंसा दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, तस्य प्रशंसा- स्तवः सकलपुरुषार्थानामेव धर्मः प्रधानमित्येवंरूपा, तथाऽन्यैरप्युक्तं धनदो धनार्थिनां प्रोक्तः, कामिनां सर्वकामदः । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥ १ ॥ इत्यादि । स चात्रैव जिनशासने धर्मो नान्यत्र, इहैव निरवद्यवृत्तिसद्भावाद्, एतच्चोत्तरत्र न्यक्षेण वक्ष्यामः । For Private and Personal Use Only प्रथममध्ययनं द्रुमपुष्पिका, निर्युक्तिः १९ 'यावन्ति'ति चतुर्थद्वारे दशाध्ययनानि इति | निर्युक्तिः २०-२३ 'यथास्थापितानी ति पञ्चमद्वारे संक्षेपणाध्ययनार्था धिकाराः। ।। २१ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy