________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशममध्ययन
सभिक्षुः,
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥४११॥
सूत्रम् ६-१० भिक्षुस्वरूप: समसुखदुःखः।
ज्ञातपुत्रवचनं भगवन्महावीरवर्धमानवचनं आत्मसमान् आत्मतुल्यान् मन्येत षडपिकायान् पृथिव्यादीन्, पञ्चचे ति चशब्दोऽप्यर्थः पञ्चापि स्पृशति सेवते महाव्रतानि पञ्चाश्रवसंवृतश्च द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च यः स भिक्षुरिति सूत्रार्थः ।। ५ ।।
चत्तारि वमे सया कसाए, धुवजोगी हविज बुद्धवयणे । अहणे निजायरूवरयए, गिहिजोगं परिवजए जे स भिक्खू। सूत्रम् ६ ।। सम्मट्टिी सया अमूढे, अत्थि हु नाणे तवे संजमे अ। तवसा धुणइ पुराणपावगं, मणवयकायसुसंवुडे जे स भिक्खू॥ सूत्रम् ७ ।। तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता। होही अट्ठो सुए परे वा, तं न निहे न निहावए जे स भिक्खू ।। सूत्रम् ८॥ तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । छंदिअ साहम्मिआण भुंजे, भुच्चा सज्झायरए जे स भिक्खू।सूत्रम् ९॥ न य वुग्गहिअंकहं कहिज्जा, न य कुप्पे निहुइंदिए पसंते । संजमे धुवं जोगेण जुत्ते, उवसंते अविहेडए जे स भिक्खू ।। सूत्रम् १०॥ किं च- चतुरः क्रोधादीन् वमति तत्प्रतिपक्षाभ्यासेन सदा सर्वकालं कषायान्, ध्रुवयोगी च-उचितनित्ययोगवांश्च भवति, बुद्धवचन इति तृतीयार्थे सप्तमी, तीर्थकरवचनेन करणभूतेन, ध्रुवयोगी भवति यथागममेवेति भावः, अधन: चतुष्पदादिरहितः निर्जातरूपरजतो निर्गतसुवर्णरूप्य इति भावः, गृहियोग मूर्छया गहस्थसंबन्धं परिवर्जयति सर्वैः प्रकारैः परित्यजति यः स । भिक्षुरिति सूत्रार्थः ।। ६॥ तथा- सम्यग्दृष्टिः भावसम्यग्दर्शनी सदा अमूढः अविप्लुतः सन्नेवं मन्यते-अस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रियेष्वपि तपश्च बाह्याभ्यन्तरकर्ममलापनयनजलकल्पं संयमश्च नवकर्मानुपादानरूपः, इत्थं च दृढभावस्तपसा धुनोति पुराणपापं भावसारया प्रवृत्त्या मनोवाक्कायसंवृतः तिसृभिर्गुप्तिभिर्गुप्तो यः स भिक्षुरिति सूत्रार्थः ।। ७ ।। तथैवे ति पूर्वर्षिविधानेन अशनं पानं च प्रागक्तस्वरूपं तथा विविधं अनेकप्रकारं खाद्यं स्वाद्यं च प्रागुक्तस्वरूपमेव लब्ध्वा प्राप्य, किमित्याहभविष्यति अर्थः प्रयोजनमनेन श्वः परश्वो वेति तद् अशनादि न निधत्ते न स्थापयति स्वयं तथा न निधापयति न स्थापयत्यन्यैः
||४११।।
For Private and Personal Use Only