________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम्
।। ४९० ।।
www.kobatirth.org
निष्क्रम्य द्रव्यभावगृहात् प्रव्रज्यां गृहीत्वेत्यर्थः आज्ञया तीर्थकरगणधरोपदेशेन योग्यतायां सत्याम्, निष्क्रम्य किमित्याहबुद्धवचने अवगततत्त्वतीर्थकरगणधरवचने नित्यं सर्वकालं चित्तसमाहितः चित्तेनातिप्रसन्नो भवेत्, प्रवचन एवाभियुक्त इति गर्भः, व्यतिरेकतः समाधानोपायमाह- स्त्रीणां सर्वासत्कार्यनिबन्धनभूतानां वशं तदायत्ततारूपं न चापि गच्छेत्, तद्वशगो हि नियमतो वान्तं प्रत्यापिबति, अतो बुद्धवचनचित्तसमाधानतः सर्वथा स्त्रीवशत्यागाद्, अनेनैवोपायेनान्योपायासंभवात्, वान्तं परित्यक्तं सद्विषयजम्बालं न प्रत्यापिबति न मनागप्याभोगतोऽनाभोगतश्च तत्सेवते यः स भिक्षुः- भावभिक्षुरिति सूत्रार्थः ।। १ ॥ तथा-पृथिवीं सचेतनादिरूपां न खनति स्वयंन खानयति परैः, 'एकग्रहणे तज्जातीयग्रहण' मिति खनन्तमप्यन्यं न समनुजानाति, एवं सर्वत्र वेदितव्यम् । शीतोदकं सचित्तं पानीयं न पिबति स्वयं न पाययति परानिति, अग्निः षड्जीवघातकः, किंवदित्याहशस्त्रं खड्गादि यथा सुनिशितं उज्वालितं तद्वत्, तं न ज्वालयति स्वयं न ज्वालयति परैः, य इत्थंभूतः स भिक्षुः । आह षड्जीवनिकायादिषु सर्वाध्ययनेष्वयमर्थोऽभिहितः किमर्थं पुनरुक्त इति उच्यते, तदुक्तार्थानुष्ठानपर एव भिक्षुरिति ज्ञापनार्थम्, ततश्च न दोष इति सूत्रार्थः ॥ २॥ तथा अनिलेन अनिलहेतुना चेलकर्णादिना न वीजयत्यात्मादि स्वयं न वीजयति परैः । हरितानि शष्यादीनि न छिनत्ति स्वयं न छेदयति परैः, बीजानि हरितफलरूपाणि व्रीह्मादीनि सदा सर्वकालं विवर्जयन् संघट्टनादिक्रियया, सचित्तं नाहारयति यः कदाचिदप्यपुष्टालम्बनः स भिक्षुरिति सूत्रार्थः ।। ३ ।। औद्देशिकादिपरिहारेण त्रसस्थावरपरिहारमाहवधनं हननं त्रसस्थावराणां द्वीन्द्रियादिपृथिव्यादीनां भवति कृतौद्देशिके, किंविशिष्टानां ?- पृथिवीतृणकाष्ठनिश्रितानां तथासमारम्भात्, यस्मादेवं तस्मादौदेशिकं कृताद्यन्यच्च सावद्यं न भुङ्क्ते, न केवलमेतत्, किंतु ? नापि पचति स्वयं न पाचयति अन्यैर्न पचन्तमनुजानाति यः स भिक्षुरिति सूत्रार्थः ॥ ४ ॥ किंच रोचयित्वा विधिग्रहणभावनाभ्यां प्रियं कृत्वा, किं तदित्याह
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
दशममध्ययनं सभिक्षुः,
सूत्रम् १-५
षटकायाविराधको भिक्षुः ।
।। ४९० ।।