________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsun Gyanmandir
दशममध्ययन
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥४०३॥
लिङ्गिद्रव्यभिक्षोःसावधपरत्वमा
ब्रह्मचारिकथनं
शाक्यभिक्षप्रभृतयो हि मिथ्यादृष्टयः अतत्त्वाभिनिवेशिनः प्रशमादिलिङ्गशून्याः, त्रसस्थावराणां प्राणिनां पृथिव्यादीनां । द्वीन्द्रियादीनां च, अत्र पृथिव्यादयः स्थावराः द्वीन्द्रियादयस्त्रसाः, नित्यं वधकरणरता:-सदैतदतिपाते सक्ताः, कथमित्यत्राह
सभिक्षुः,
नियुक्ति: ३३८ अब्रह्मचारिणः संचयिनश्च यतः, अतोऽप्रधानत्वाइव्यभिक्षवः, चशब्दस्य व्यवहित उपन्यास इति गाथार्थः ।। ३३७ ।। एते । चाब्रह्मचारिणः संचयादेवेति संचयमाहनि०- दुपयचउप्पयधणधन्नकुविअतिअतिअपरिग्गहे निरया । सञ्चित्तभोइ पयमाणगा अउद्दिट्ठभोई अ।। ३३८॥
नियुक्ति: ३३९ द्विपदं- दास्यादि चतुष्पदं- गवादि धनं- हिरण्यादि धान्यं- शाल्यादि कुप्य- अलिञ्जरादि एतेषु द्विपदादिषु क्रमेण मनो- कुतीथिकालक्षणादिना करणत्रिकेण त्रिकपरिग्रहे-कृतकारितानुमतपरिग्रहे निरताः- सक्ताः । न चैतदनार्ष-विहारान् कारयेद्रम्यान्वासयेच बहुश्रुतान् इतिवचनात्, सद्भूतगुणानुष्ठायिनो नेत्थंभूता इत्याशङ्कयाह- सचित्तभोजिनः, तेऽपि मांसाप्कायादिभोजिनः,
भावभिक्षुतदप्रतिषेधात्, पचन्तश्च स्वयंपचास्तापसादयः, उद्दिष्टभोजिनश्च सर्व एव शाक्यादयः, तत्प्रसिद्ध्या तपस्विनोऽपि, पिण्डविशुट्यपरिज्ञानादिति गाथार्थः ।। ३३८ ।। त्रिकत्रिकपरिग्रहे निरता इत्येतन्याचिख्यासुराह
नि०-करणतिए जोअतिए सावजे आयउपरउभए। अट्ठाणट्ठपवत्ते ते विजा दव्यभिक्खुत्ति ।। ३३९ ।। करणत्रिक इति 'सुपां सुपो भवन्तीति करणत्रिकेण मनोवाक्कायलक्षणेन योगत्रितय इति कृतकारितानुमतिरूपे सावद्ये । सपापे आत्महेतोः- आत्मनिमित्तं देहाधुपचयाय, एवं परनिमित्तं- मित्राद्युपभोगसाधनाय एवमुभयनिमित्तं-उभयसाधनार्थम्, एवमर्थायात्माद्यर्थं अनर्थाय वा-विना प्रयोजनेन आर्त्तध्यानचिन्तनखरादिभाषणलक्षवेधनादिभिः प्राणातिपातादौ प्रवृत्तान्तत्परान् तानेवंभूतान् विद्याद्- विजानीयात् द्रव्यभिक्षूनिति, प्रवृत्ताश्चैवं शाक्यादयः, तद्रव्यभिक्षव इति गाथार्थः ॥ ३३९ ॥
निक्षेपाश।
||४०३॥
For Private and Personal Use Only