________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
॥ ४०४ ।।
www.kobatirth.org
एवं स्त्र्यादिसंयोगाद्विशुद्धतपोऽनुष्ठानाभावाच्चाब्रह्मचारिण एत इत्याह
नि० इत्थीपरिग्गहाओ आणादाणाइभावसंगाओ। सुद्धतवाभावाओ कुतित्थि आऽवंभचारित्ति ।। ३४० ।। स्त्रीपरिग्रहा दिति दास्यादिपरिग्रहात् आज्ञादानादिभावसङ्गाच परिणामाशुद्धेरित्यर्थः न च शाक्या भिक्षवः, शुद्धतपोऽभावा दिति शुद्धस्य तपसोऽभावात् तापसादयः कुतीर्थिका अब्रह्मचारिण इति, ब्रह्मशब्देन शुद्धं तपोऽभिधीयते, तदचारिण इति गाथार्थः ।। ३४० ॥ उक्तो द्रव्यभिक्षुः, भावभिक्षुमाह
नि०- आगमतो उवउत्तो तग्गुणसंवेअओ अ (उ) भावंमि । तस्स निरुत्तं भे अगभे अणभेत्तव्वएण तिहा ।। ३४१ ।। भावभिक्षुर्द्विविध:- आगमतो नोआगमतश्च, तत्रागमत उपयुक्त इति भिक्षुपदार्थज्ञस्तत्र चोपयुक्तः, तद्गुणसंवेदकस्तु भिक्षुगुणसंवेदकः पुनर्नो आगमतो भवति भावभिक्षुरित्युक्तो भिक्षुनिक्षेपः । साम्प्रतं निरुक्तमभिधातुकाम आह- तस्य निरुक्त मिति 'तस्य' भिक्षोर्निश्चितमुक्तमन्वर्थरूपं भेदकभेदनभेत्तव्यैरेभिर्भेदैर्वक्ष्यमाणैस्त्रिधा भवतीति गाथार्थः ।। ३४१ ।। एतदेव स्पष्टयति
नि०- भेत्ताऽऽगमोवउत्तो दुविह तवो भेअणं च भेत्तव्वं । अट्ठविहं कम्मखुहं तेण निरुत्तं स भिक्खुत्ति ।। ३४२ ।। भेत्ता भेदकोऽत्रागमोपयुक्तः साधुः, तथा द्विविधं बाह्याभ्यन्तरभेदेन तपो भेदनं वर्तते, तथा भेत्तव्यं विदारणीयं चाष्टविधं कर्म च-अष्टप्रकारं ज्ञानावरणीयादि कर्म, तच्च क्षुदादिदुःखहेतुत्वात् क्षुच्छब्दवाच्यम्, यतश्चैवं तेन निरुक्तं यः शास्त्रनीत्या तपसा कर्म भिनत्ति स भिक्षुरिति गाथार्थ: ।। ३४२ ।। किं च
नि०- भिदंतो अजह खुहं भिक्खू जयमाणओ जई होइ। संजमचरओ चरओ भवं खिवंतो भवंतो उ ।। ३४३ ।। भिन्दंश्च विदारयंश्च यथा क्षुधं कर्म भिक्षुर्भवति, भावतो यतमानस्तथा तथा गुणेषु स एव यतिर्भवति नान्यथा, एवं संयमचरकः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
| दशममध्ययनं समिक्षुः, निर्युक्तिः ३४०
|कुतीर्विकाब्रह्मचारि
| कथनं भावभिक्षु निक्षेपाच
निर्युक्तिः
| ३४१-३४३ निरुक्तद्वारम् ।
॥ ४०४ ।।