________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। ४०१ ।।
www.kobatirth.org
ये भावाः पदार्थाः पृथिव्यादिसंरक्षणादयो दशवैकालिके प्रस्तुते शास्त्रे करणीया अनुष्ठेया वर्णिताः कथिता जिनै:- तीर्थकर - गणधरैः, तेषां भावानां समापने यथाशक्त्या (क्ति) द्रव्यतो भावतश्वाचरणेन पर्यन्तनयनेन यो भिक्षुः तदर्थं यो भिक्षणशीलो न तूदरादिभरणार्थं भण्यते स भिक्षुरिति, इतिशब्दस्य व्यवहित उपन्यासः । स भिक्षुरित्यत्र निर्देशे सकार इति गाथार्थः ।। ३३० ।। प्रशंसायामाह
नि०- चरगमरुगाड़ आणं भिक्खुजीवीण काउणमपोहं। अज्झयणगुणनिउत्तो होड़ पसंसाइ उ सभिक्खू ।। ३३१ ।।
चरकमरुकादीना मिति चरका:- परिव्राजकविशेषाः मरुका- धिग्वर्णाः, आदिशब्दाच्छाक्यादिपरिग्रहः, अमीषां भिक्षोपजीविनां भिक्षणशीलानामगुणवत्त्वेनापोहं कृत्वा अध्ययनगुणनियुक्तः प्रक्रान्तशास्त्रनिष्यन्दभूतप्रक्रान्ताध्ययनाभिहितगुणसमन्वितो भवति । प्रशंसायामवगम्यमानायां सद्भिक्षुः- संश्चासौ भिक्षुश्च तत्तदन्यापोहेन सद्भिक्षुरिति गाथार्थः ।। ३३१ ।। उक्तः सकारः, इदानीं भिक्षुमभिधातुकाम आह
नि०- भिक्खुस्सय निक्खेवो निरुत्तएगट्टिआणि लिंगाणि । अगुणडिओ न भिक्खू अवयवा पंच दाराई ।। ३३२ ।। भिक्षोः निक्षेपो नामादिलक्षणः कार्य:, तथा निरुक्तं वक्तव्यं भिक्षोरेव, तथा एकार्थिकानि पर्यायशब्दरूपाणि वक्तव्यानि, तथा लिङ्गानि संवेगादीनि तथा अगुणस्थितो न भिक्षुरपि तु गुणस्थित एवेत्येतद्वाच्यम् । अत्र च अवयवाः पञ्च प्रतिज्ञादयो वक्ष्यमाणा इति, द्वाराण्येतानीति गाथासमासार्थः ।। ३३२ ।। यथाक्रमं व्यासार्थमाह
नि०- णामंठवणाभिक्खू दव्वभिक्खू अ भावभिक्खू अ । दव्वम्मि आगमाई अत्रोऽवि अ पजवो इणमो ।। ३३३ ।। नामस्थापनाभिक्षु रिति भिक्षुशब्दः प्रत्येकमभिसंबध्यते, नामभिक्षुः स्थापनाभिक्षुः द्रव्यभिक्षुश्च भावभिक्षुश्चेति । तत्र
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
दशममध्ययनं सभिक्षुः निर्युक्तिः ३३९
| सकार
निक्षेपाः। निर्यक्ति: नियुक्तिः
| ३३२-३३३ भिक्षुनिक्षेप निरुक्तादि
द्वाराणि ।
।। ४०१ ।।