________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवममध्ययन
वैकालिक श्रीहारि० वृत्तियुतम् ॥३९९।।
सूत्रम् ४-७
तपः
समाध्याचार
रीहः सन् यथा मोक्ष एव भवतीति चतुर्थं पदं भवति । भवति चात्र श्लोक इति पूर्ववत् ।। स चायं- जिनवचनरत आगमे सक्तः । अतिन्तिनः न सकृत्किञ्चिदुक्तः सन्नसूयया भूयो भूयो वक्ता प्रतिपूर्णः सूत्रादिना, आयतमायतार्थिक इत्यत्यन्तं मोक्षार्थी विनयसमाधिः,
चतुर्थोद्देशकः आचारसमाधिसंवृत इति आचारे यः समाधिस्तेन स्थगिताश्रवद्वारः सन् भवति दान्त इन्द्रियनोइन्द्रियदमाभ्यां भावसंधकः भावोमोक्षस्तत्सन्धक आत्मनो मोक्षासन्नकारीति सूत्रार्थः ॥५॥ सर्वसमाधिफलमाह-अभिगम्य विज्ञायासेव्य च चतुरः समाधीन अनन्तरोदितान्, सुविशुद्धो मनोवाक्कायैः, सुसमाहितात्मा सप्तदशविधे संयमे, एवंभूतो धर्मराज्यमासाद्य विपुलहितसुखावह पुन रिति विपुलं- विस्तीर्णं हितं तदात्वे आयत्यां च पथ्यं सुखमावहति-प्रापयति यत्तत् तथाविधं करोत्यसौ साधुः पदं- समाधिस्थानं क्षेम-शिवं आत्मन इत्यात्मन एव न त्वन्यस्य इत्यनेनैकान्तक्षणभङ्गव्यवच्छेदमाहेति सूत्रार्थः ।। ६ ।। एतदेव स्पष्टयतिजातिमरणात् संसारान्मुच्यते असौ सुसाधुः इत्थंस्थं चेती दंप्रकारमापन्नमित्थं इत्थं स्थितमित्थंस्थं- नारकादिव्यपदेशबीज वर्णसंस्थानादि तच त्यजति सर्वशः सर्वैः प्रकारैरपुनर्गहणतया एवं सिद्धो वा कर्मक्षयात्सिद्धो भवति शाश्वतः अपुनरागामी सावशेषकर्मा देवो वा अल्परतः कण्डूपरिगतकण्डूयनकल्परतरहित: महर्द्धिकः अनुत्तरवैमानिकादिः । ब्रवीमीति पूर्ववदिति । सूत्रार्थः, उक्तोऽनुगमः, नयाः पूर्ववत् ।। ७ ।। इति चतुर्थः ।। ४ ।। चतुर्थोद्देशकः समाप्तः ।।
स्थानम्।
||३९९ ।।
। सूरिपुरन्दर श्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वृत्तौ
नवममध्ययनं विनयसमाध्याख्यं समाप्तमिति ॥
ARRRRRRO0808080808081
For Private and Personal Use Only