________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
| ।। ३९८ ।।
www.kobatirth.org
इहलोकनिमित्तं लब्ध्यादिवाञ्छया तपः अनशनादिरूपं अधितिष्ठेत् न कुर्याद्धर्म्मिलवत् १, तथा न परलोकार्थं जन्मान्तरभोगनिमित्तं तपोऽधितिष्ठेद्ब्रह्मदत्तवत्, एवं न कीर्त्तिवर्णशब्दश्लाघार्थ मिति सर्वदिग्व्यापी साधुवादः कीर्त्तिः एकदिग्व्यापी वर्णः, अर्द्धदिग्व्यापी शब्दः, तत्स्थान एव श्लाघा, नैतदर्थं तपोऽधितिष्ठेत्, अपि तु नान्यत्र निर्जरार्थ मिति न कर्मनिर्जरामेकां विहाय तपोऽधितिष्ठेत्, अकामः सन् यथा कर्मनिर्जरैव फलं भवति तथाऽधितिष्ठेदित्यर्थः चतुर्थं पदं भवति । भवति चात्र श्लोक इति पूर्ववत् । स चायं विविधगुणतपोरतो हि नित्यं अनशनाद्यपेक्षयाऽनेकगुणं यत्तपस्तद्रत एव सदा भवति निराशो निष्प्रत्याश इहलोकादिषु निर्जरार्थिकः कर्मनिर्जरार्थी, स एवंभूतस्तपसा विशुद्धेन धुनोति अपनयति पुराणपापं चिरन्तनं कर्म, नवं च न बध्नात्येवं युक्तः सदा तपः समाधाविति सूत्रार्थः ॥ ४ ॥
चडव्विहा खलु आयारसमाही भवइ, तंजहा- नो इहलोगट्टयाए आयारमहिट्टिज्जा १, नो परलोगट्टयाए आयारमहिट्ठिजा २, नो कित्तिवण्णसद्दसिलोगट्टयाए आयारमहिट्टिज्जा ३, नन्नत्थ आरहंतेहिं हेऊहिं आयारमहिट्ठिजा ४ चउत्थं पयं भवइ । भवइ अ इत्थ सिलोगो - जिणवयणरए अतिंतिणे, पडिपुन्त्राययमाययट्ठिए। आयारसमाहिसंवुडे, भवइ अ दंते भावसंधए ।। सूत्रम् ५ ।। अभिगम चउरो समाहिओ, सुविसुद्धो सुसमाहिअप्पओ। विउलहिअं सुहावहं पुणो, कुव्वइ अ सो पयखेममप्पणो ॥ सूत्रम् ६ ॥ जाइमरणाओ मुच्चइ, इत्थंथं च चएड़ सव्वसो । सिद्धे वा हवड़ सासए, देवे वा अप्परए महड्डिए ।। सूत्रम् ७ ।। त्तिबेमि ॥ चउत्थो उद्देसो समत्तो ।। ४ ।। विणयसमाहीणामज्झयणं समत्तं ।। ९ ।
उक्तस्तपःसमाधिः, आचारसमाधिमाह - चतुर्विधः खल्वाचारसमाधिर्भवति, तद्यथे त्युदाहरणोपन्यासार्थः, नेहलोकार्थमित्यादि चाचाराभिधानभेदेन पूर्ववद्यावन्नान्यत्र आर्हतैः अर्हत्संबन्धिभिर्हेतुभिरनाश्रवत्वादिभिः आचारं मूलगुणोत्तरगुणमयमधितिष्ठेन्नि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
| नवममध्ययनं विनयसमाधिः, चतुर्थोदेशकः
सूत्रम्
4-9
तप
समाध्याचारसमाधिस्थानम्।
।। ३९८ ।।