________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
।। ३९२ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिदेवयेत् न खेदं यायात्, यथा- मन्दभाग्योऽहमशोभनो वाऽयं देश इति, एवं विभागतश्च लब्ध्वा प्राप्योचितं न विकत्थते न लाघां करोति- सपुण्योऽहं शोभनो वाऽयं देश इत्येवं स पूज्य इति सूत्रार्थः ॥ ४ ॥ किं च संस्तारकशय्यासनभक्तपानानि प्रतीतान्येव, एतेषु अल्पेच्छता अमूर्च्छया परिभोगोऽतिरिक्ताग्रहणं वा अतिलाभेऽपि सति संस्तारकादीनां गृहस्थेभ्यः सकाशात् य एवमात्मानं अभितोषयति येन वा तेन वा यापयति संतोषप्राधान्यरतः संतोष एव प्रधानभावे सक्तः स पूज्य इति सूत्रार्थः ॥ ५ ॥ इन्द्रियसमाधिद्वारेण पूज्यतामाह- शक्याः सोढुं आशये ति इदं मे भविष्यतीति प्रत्याशया, क इत्याह- कण्टका अयोमया लोहात्मकाः उत्सहता नरेण अर्थोद्यमवतेत्यर्थः, तथा च कुर्वन्ति केचिदयोमयकण्टकास्तरणशयनमप्यर्थलिप्सया, न तु वाक्कण्टका: शक्या इत्येवं व्यवस्थिते अनाशया फलप्रत्याशया निरीहः सन् यस्तु सहेत कण्टकान् वाङ्मयान् खरादिवागात्मकान् कर्णसरान् कर्णगामिनः स पूज्य इति सूत्रार्थः ।। ६ ।। एतदेव स्पष्टयति- मुहूर्त्तदुःखा अल्पकालदुःखा भवन्ति कण्टका अयोमयाः, वेधकाल एव प्रायो दुःखभावात्, तेऽपि ततः कायात् सूद्धराः सुखेनैवोद्धियन्ते व्रणपरिकर्म च क्रियते, वाग्दुरुक्तानि पुनः दुरुद्धराणि दुःखेनोद्धियन्ते मनोलक्षवेधनाद् वैरानुबन्धीनि तथाश्रवणप्रद्वेषादिनेह परत्र च वैरानुबन्धीनि भवन्ति, अत एव महाभयानि, कुगतिपातादिमहाभयहेतुत्वादिति सूत्रार्थः ॥ ७ ॥
समावयंता वयणाभिघाया, कन्नगया दुम्मणिअं जणंति। धम्मुत्ति किच्चा परमग्गसूरे, जिइंदिए जो सहई स पुज्जो ।। सूत्रम् ८ ।। अवण्णवायं च परम्मुहस्स, पञ्चक्खओ पडिणीअं च भासं । ओहारणि अप्पिअकारिणि च, भासं न भासिज्ज सया स पुजो ।। सूत्रम् ९ ॥
अलोलुए अक्कुहए अमाई, अपिसुणे आवि अदीणवित्ती। नो भावए नोऽविअ भाविअप्पा, अकोउहल्ले असया स पुज्जो ।। सूत्रम्
१० ॥
For Private and Personal Use Only
नवममध्ययनं विनयसमाधिः, तृतीयोदेशकः
सूत्रम्
८-१५ | विनीतस्य पूज्यत्वोपदर्शनम् ।
।। ३९२ ।।