SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir श्रीदश वेकालिक वृत्तियुतम् नवममध्ययन विनयसमाधिः तृतीयोद्देशकः सूत्रम् १-७ विनीतस्य पूज्यत्वोपदर्शनम्। साम्प्रतं तृतीय आरभ्यते, इह च विनीतः पूज्य इत्युपदर्शयन्नाह- आचार्य सूत्रार्थप्रदं तत्स्थानीयं वाऽन्यं ज्येष्ठार्यम्, किमित्याह- अग्निमिव तेजस्कायमिव आहिताग्निः ब्राह्मणः शुश्रूषमाणः सम्यक्सेवमानः प्रतिजागृयात् तत्तत्कृत्यसंपादनेनोपचरेत् । आह- यथाऽऽहिताग्निरित्यादिना प्रागिदमुक्तमेव, सत्यम्, किं तु तदाचार्यमेवाङ्गीकृत्य इदं तु रत्नाधिकादिकमप्यधिकृत्योच्यते, वक्ष्यति च-'रायणीएसुविणय'मित्यादि, प्रतिजागरणोपायमाह-आलोकितं निरीक्षितं इङ्गितमेव च अन्यथावृत्तिलक्षणं ज्ञात्वा विज्ञायाचाभ्यं यः साधुः छन्दः अभिप्रायमाराधयति । यथा शीते पतति प्रावरणावलोकने तदानयने, इङ्गिते वा निष्ठीवनादिलक्षणे शुण्ठ्याद्यानयनेन स पूज्य स इत्थंभूतः साधुः पूजार्हः, कल्याणभागिति सूत्रार्थः।।१।। प्रक्रान्ताधिकार एवाह- आचारार्थ ज्ञानाद्याचारनिमित्तं विनयं उक्तलक्षणं प्रयुङ्क्ते करोति यः शुश्रूषन श्रोतुमिच्छन्, किमयं वक्ष्यतीत्येवम्।। तदनु तेनोक्ते सति परिगृह्य वाक्यं आचार्यायं ततश्च यथोपदिष्टं यथोक्तमेव अभिकासन् मायारहितः श्रद्धया कर्तुमिच्छन् विनयं प्रयुङ्क्ते, अतोऽन्यथाकरणेन गुरुं त्वि ति आचार्यमेव नाशातयति न हीलयति यः स पूज्य इति सूत्रार्थः ।। २।। किंचरत्नाधिकेषु ज्ञानादिभावरत्नाभ्युच्छितेषु विनयं यथोचितं प्रयुङ्क्ते करोति, तथा डहरा अपि च ये वय:श्रृताभ्यां पर्यायज्येष्ठाः चिरप्रव्रजितास्तेषु विनयं प्रयुङ्क्ते, एवं च यो नीचत्वे गुणाधिकान् प्रति नीचभावे वर्त्तते सत्यवादी अविरुद्धवक्ता तथा अवपातवान् वन्दनशीलो निकटवर्ती वा एवं च यो वाक्यकरो गुरुनिर्देशकरणशीलः स पूज्य इति सूत्रार्थः ॥ ३॥ किं चअज्ञातोञ्छं परिचयाकरणेनाज्ञातः सन् भावोञ्छं गृहस्थोद्धरितादि चरति अटित्वाऽऽनीतं भुङ्क्ते, न तु ज्ञातस्तद्बहुमतमिति, एतदपि विशुद्धं उद्गमादिदोषरहितम्, न तद्विपरीतम्, एतदपि यापनार्थं संयमभरोद्वाहिशरीरपालनाय नान्यथा समुदानं च उचितभिक्षालब्धं च नित्यं सर्वकालं न तूञ्छमप्येकत्रैव बहुलब्ध कादाचित्कं वा, एवंभूतमपि विभागतः अलब्ध्वा अनासाद्य न ॥३९१॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy