________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥३७९॥
नवममध्ययन विनयसमाधिः, प्रथमोद्देशकः सूत्रम् २-१० उदाहरणपूर्वकं दोषप्ररूपणम्।
किंच-जे आवि त्ति सूत्रम्, ये चापि केचन द्रव्यसाधवोऽगम्भीराः, किमित्याह- मन्द इति गुरुं विदित्वा क्षयोपशमवैचित्र्यातन्त्रयुक्त्यालोचनाऽसमर्थः सत्प्रज्ञाविकल इति स्वमाचार्य ज्ञात्वा । तथा कारणान्तरस्थापितमप्राप्तवयसंडहरोऽयं अप्राप्तवया खल्वयम्, तथा अल्पश्रुत इत्यनधीतागम इति विज्ञाय, किमित्याह- हीलयन्ति सूययाऽसूयया वा खिसयन्ति, सूयया । अतिप्रज्ञस्त्वं वयोवृद्धो बहुश्रुत इति, असूयया तु मन्दप्रज्ञस्त्वमित्याद्यभिदधति, मिथ्यात्वं प्रतिपद्यमाना इति गुरुर्न हीलनीय । इति तत्त्वमन्यथाऽवगच्छन्तः कुर्वन्ति आशातनां लघुतापादनरूपांते द्रव्यसाधवः गुरूणां आचार्याणाम्, तत्स्थापनाया अबहुमानेन एकगुर्वाशातनायां सर्वेषामाशातनेति बहुवचनम्, अथवा कुर्वन्ति 'आशातनां' स्वसम्यग्दर्शनादिभावापहासरूपांते गरूणां संबन्धिनीम. तन्निमित्तत्वादिति सूत्रार्थः ॥ २॥ अतोन कार्या हीलनेति, आह च-'पगइति सूत्रम्, प्रकृत्या स्वभावेन । कर्मवैचित्र्यात् मन्दा अपि सद्बुद्धिरहिता अपि भवन्ति एके केचन वयोवृद्धा अपि तथा डहरा अपि च अपरिणता अपि च । वयसाऽन्येऽमन्दा भवन्तीति वाक्यशेषः, किंविशिष्टा इत्याह- ये च श्रुतबुद्ध्युपपेताः तथा सत्प्रज्ञावन्तः श्रुतेन बुद्धिभावेन वा, भाविनी वृत्तिमाश्रित्याल्पश्रुता इति, सर्वथा आचारवन्तो ज्ञानाद्याचारसमन्विता: गुणसुस्थितात्मानो गुणेषु- संग्रहोपग्रहादिषु सुष्ठ- भावसारं स्थित आत्मा येषां ते तथाविधा न हीलनीयाः, ये हीलिता खिसिताः शिखीव अग्निरिवेन्धनसंघातं भस्मसात्कुर्युः ज्ञानादिगुणसंघातमपनयेयुरिति सूत्रार्थः ।। ३ ।। विशेषेण डहरहीलनादोषमाह- जे आवि त्ति सूत्रम् यश्चापि कश्चिदज्ञो नाग सर्प डहर इति बाल इति ज्ञात्वा विज्ञाय आशातयति किलिञ्चादिना कदर्थयति 'स' कदीमानो नाग: से तस्य कदर्थकस्य अहिताय भवति भक्षणेन प्राणनाशाय भवति, एष दृष्टान्तोऽयमर्थोपनयः- एवमाचार्यमपि कारणतोऽपरिणतमेव स्थापित हीलयन् निर्गच्छति जातिपन्थानं द्वीन्द्रियादिजातिमार्ग मन्दः अज्ञः, संसारे परिभ्रमतीति सूत्रार्थः ॥ ४॥ अत्रैव दृष्टान्तदाटन्ति
888888888888
For Private and Personal Use Only