________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagarsun Gyanmandit
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||३८०॥
नवममध्ययन विनयसमाधिः, प्रथमोद्देशकः सूत्रम् २-१० उदाहरणपूर्वकं दोषप्ररूपणम्।
कयोर्महदन्तरमित्येतदाह- आसि'त्ति सूत्रम्, आशीविषश्चापि सर्पोऽपि परं सुरुष्टः सुक्रुद्ध सन् किं जीवितनाशात् मृत्योः परं कुर्यात्?, न किंचिदपीत्यर्थः, आचार्यपादाः पुनः अप्रसन्ना हीलनयाऽननुग्रहे प्रवृत्ताः, किं कुर्वन्तीत्याह- अबोधिं निमित्तहेतुत्वेन मिथ्यात्वसंहतिम्, तदाशातनया मिथ्यात्वबन्धात्, यतश्चैवमत आशातनया गुरोर्नास्ति मोक्ष इति, अबोधिसंतानानुबन्धेनानन्तसंसारिकत्वादिति सूत्रार्थः ॥ ५॥ किं च-'जो पावर्ग'ति सूत्रम्, यः पावकं अग्निं ज्वलितं सन्तं अपक्रामेद् अवष्टभ्य तिष्ठति, आशीविषं वापि हि भुजङ्गमं वापि हि कोपयेत् रोषं ग्राहयेत्, यो वा विषं खादति जीवितार्थी जीवितुकामः, एषोपमा अपायप्राप्ति प्रत्येतदुपमानम्, आशातनया कृतया गुरूणां संबन्धिन्या तद्वदपायो भवतीति सूत्रार्थः ॥ ६॥ अत्र विशेषमाह- सिआ हुत्ति सूत्रम्, स्यात् कदाचिन्मन्त्रादिप्रतिबन्धादसौ पावकः अग्निः न दहेत् न भस्मसात्कुर्यात्, आशीविषो वा भुजङ्गो वा कुपितो न भक्षयेत् न खादयेत्, तथा स्यात् कदाचिन्मन्त्रादिप्रतिबन्धादेव विषं हालाहलं अतिरौद्रं न मारयेत् न प्राणांस्त्याजयेत. एवमेतत्कदाचिद्भवति न चापि मोक्षो गुरुहीलनया गुरोराशातनया कृतया भवतीति सूत्रार्थः ।। ७॥ किंच-'जो पव्वयंति सूत्रम्, यः पर्वतं शिरसा उत्तमाङ्गेन भेत्तुमिच्छेत्, सुप्तं वा सिंह गिरिगुहायां प्रतिबोधयेत्, यो वा ददाति शक्त्यग्रे प्रहरणविशेषाग्रे प्रहारं हस्तेन, एषोपमाऽऽशातनया गुरूणामिति पूर्ववदेवेति सूत्रार्थः ॥ ८॥ अत्र विशेषमाह-'सिआ हु'त्ति सूत्रम्, स्यात् कदाचित्कश्चिद्वासुदेवादिः प्रभावातिशयाच्छिरसा गिरिमपि पर्वतमपि भिन्द्यात्, स्यान्मन्त्रादिसामर्थ्यात्सिंहः कुपितो न भक्षयेत्, स्याद्देवतानुग्रहादेर्न भिन्द्याद्वा शक्त्यग्रंप्रहारे दत्तेऽपि, एवमेतत्कदाचिद्भवति, न चापि मोक्षो गुरुहीलनया गुरोराशातनया भवतीति सूत्रार्थः ॥ ९॥ एवं पावकाद्याशातनाया गुर्वाशातना महतीत्यतिशयप्रदर्शनार्थमाह-'आयरिअ'त्ति सूत्रम्, आचार्यपादाः पुनरप्रसन्ना इत्यादि पूर्वार्धं पूर्ववत्, यस्मादेवं तस्माद् अनाबाधसुखाभिकाजी मोक्षसुखाभिलाषी साधुः गुरुप्रसादाभिमुखः
2
॥३८०॥
For Private and Personal Use Only