________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवममध्ययन
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ३७६॥
निक्षेपाश।
प्रतिरूप: उचितः खलु विनय: परानुवृत्त्यात्मकः तत्तद्वस्त्वपेक्षया प्राय आत्मव्यतिरिक्तप्रधानानुवृत्त्यात्मको मन्तव्यः । अयं च बाहुल्येन छद्मस्थानाम् । तथा अप्रतिरूपो विनयः अपरानुवृत्त्यात्मकः, स च ज्ञातव्य: केवलिनामेव, तेषां तेनैव प्रकारेण :
विनयसमाधिः
प्रथमोद्देशकः कर्मविनयनात्, तेषामपीत्वरः प्रतिरूपोऽज्ञातकेवलभावानां भवत्येवेति गाथार्थः ।। ३२३ ।। उपसंहरन्नाह- एषः अनन्तरोदितो
नियुक्ति: ३२७ भे भवतां परिकथितो विनयः प्रतिरूपलक्षणः त्रिविधः कायिकादिः द्विपञ्चाशद्विधिविधानं एतावत्प्रभेदमित्यर्थः ब्रुवते अभिदधति समाधितीर्थकरा अनाशातनाविनयं वक्ष्यमाणमिति गाथार्थः ।। ३२४ ।। एतदेवाह- तीर्थकरसिद्धकुलगणसङ्घक्रियाधर्मज्ञानज्ञानिनां तथा आचार्यस्थविरोपाध्यायगणिनां संबन्धीनि त्रयोदश पदानि, अत्र तीर्थकरसिद्धौ प्रसिद्धौ, कुलं नागेन्द्रकुलादि, गणः कोटिकादिः, सड़ः प्रतीतः, क्रियाऽस्तिवादरूपा, धर्मः श्रुतधर्मादिः, ज्ञानं मत्यादि. ज्ञानिनस्तद्वन्तः, आचार्यः प्रतीतः, स्थविरः सीदतां स्थिरीकरणहेतुः, उपाध्यायः प्रतीतः, गणाधिपतिर्गणिरिति गाथार्थः ।। ३२५ ।। एतानि त्रयोदश पदानि अनाशातनादिभिश्चतर्भिर्गणितानि द्विपञ्चाशद्धवन्तीत्याह- अनाशातना च तीर्थकरादीनां सर्वथा अहीलनेत्यर्थः, तथा भक्तिस्तेष्वेवोचितोपचाररूपा, तथा बहुमानस्तेष्वेवान्तरभावप्रतिबन्धरूपः, तथा च वर्णसंज्वलनातीर्थकरादीनामेव सद्भूतगुणोत्कीर्तना । एवमनेन प्रकारेण तीर्थकरादयस्त्रयोदश चतुर्गणा अनाशातनाद्यपाधिभेदेन भवन्ति द्विपञ्चाशद्भेदा इति गाथार्थः ।। ३२६ ।। उक्तो विनयः, साम्प्रतं समाधिरुच्यते, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिसमाधिमाह
नि०-दव्वं जेण व दव्वेण समाही आहिअंचजंदव्वं । भावसमाहि चउब्विह दंसणनाणे तवचरित्ते ।। ३२७॥ द्रव्य मिति द्रव्यमेव समाधिः द्रव्यसमाधिः यथा मात्रकं अविरोधि वा क्षीरगुडादि तथा येन वा द्रव्येणोपयुक्तेन समाधिस्त्रिफलादिना तद् द्रव्यसमाधिरिति । तथा आहितं वा यद्रव्यं समतां करोति तुलारोपितपलशतादिवत्स्वस्थाने तद् द्रव्यं
॥३७६।।
For Private and Personal Use Only