SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तिषुतम् ।। ३७५ ।। www.kobatirth.org उपनयति च स्वर्गं मोक्षं आत्मानं जीवं तपोविनयनिश्चयमतिः, यस्मादेवंविधस्तपोविनीतो भवति तस्मादिति गाथार्थः ।। ३१८ ।। उपचारविनयमाह- अथौपचारिकः पुनर्द्विविधो विनयः समासतो भवति, द्वैविध्यमेवाह प्रतिरूपयोगयोजनं तथाऽनाशातनाविनय इति गाथासमासार्थः ।। ३१९ ।। व्यासार्थमाह- प्रतिरूपः उचितः खलु विनयस्त्रिविधः, काययोगे च वाचि मानसः कायिको वाचिको मानसश्च, अष्टचतुर्विधद्विविधः, कायिकोऽष्टविधः वाचिकश्चतुर्विधः मानसो द्विविधः । प्ररूपणा तस्य कायिकाष्टविधादेरियं भवति वक्ष्यमाणलक्षणेति गाथार्थः ।। ३२० ।। कायिकमाह- अभ्युत्थानमर्हस्य, अञ्जलिः प्रश्नादौ, आसनदानं पीठकाद्युपनयनम्, अभिग्रहो गुरुनियोगकरणाभिसन्धिः, 'कृतिश्चे' ति कृतिकर्म वन्दनमित्यर्थः, शुश्रूषणं विधिवददूरासन्नतया सेवनम्, अनुगमनं आगच्छतः प्रत्युद्गमनम्, संसाधनं च गच्छतोऽनुव्रजनं चाष्टविध: कायविनय इति गाथार्थ: ।। ३२१ ।। वागादिविनयमाह- हितमितापरुषवागिति हितवाक्- हितं वक्ति परिणामसुन्दरम्, मितवाग्- मितं स्तोकैरक्षरैः, अपरुषवागपरुषंअनिष्ठुरम्, तथा अनुविचिन्त्यभाषी स्वालोचितवक्तेति वाचिको विनयः। तथा अकुशलमनोनिरोधः आर्तध्यानादिप्रतिषेधेन, कुशलमनउदीरणं चैव धर्मध्यानादिप्रवृत्त्येति मानस इति गाथार्थ: ।। ३२२ ।। आह- किमर्थमयं प्रतिरूपविनयः ?, कस्य चैष इति ?, उच्यते नि०- पडिवो खलु विणओ पराणुअत्तिमइओ मुणे अव्वो। अप्पडिरूवो विणओ नायव्वो केवलीणं तु ।। ३२३ ।। नि० एसो भे परिकहिओ विणओ पडिरूवलक्खणो तिविहो। बावन्नविहिविहाणं बेंति अणासायणाविणयं ।। ३२४ ।। नि०- तित्थगरसिद्धकुलगणसंघकियाधम्मनाणनाणीणं। आयरिअथेर ओज्झागणीणं तेरस पयाणि ।। ३२५ ।। नि० अणसायणाय भत्ती बहुमाणो तहय वन्नसंजलणा। तित्थगराई तेरस चउग्गुणा होंति बावन्ना ।। ३२६ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नवममध्ययनं विनयसमाधिः, प्रथमोद्देशकः निर्युक्तिः | ३२३-३२६ प्रतिरूपाप्रतिरूपो विनयः । ।। ३७५ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy