________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् || ३७४।।
नवममध्ययन विनयसमाधिः, प्रथमोद्देशकः नियुक्तिः ३१७-३२२ पञ्चविधमोक्षविनयः।
नि०- अट्ठविहं कम्मचयं जम्हा रित्तं करेइ जयमाणो । नवमन्नं च न बंधइ चरित्तविणओ हवइ तम्हा ।। ३१७ ।। नि०- अवणेइ तवेण तमं उवणेइ असम्गमोक्खमप्पाणं । तवविणयनिच्छयमई तवोविणीओ हवइ तम्हा ।। ३१८।। नि०- अह ओवयारिओ पुण दुविहो विणओसमासओहोड़। पडिरूवजोगजुंजण तह य अणासायणाविणओ।। ३१९।। नि०- पडिरूवो खलु विणओ काइअजोए य वाइ माणसिओ। अट्ठ चउव्विह दुविहो परूवणा तस्सिमा होइ ।। ३२० ।। नि० - अन्भुट्ठाणं अंजलि आसणदाणं अभिग्गह किई अ। सुस्सूसणमणुगच्छण संसाहण काय अट्ठविहो ।। ३२१ ।। नि०-हिअमिअअफरुसवाई अणुवीईभासि वाइओ विणओ। अकुसलचित्तनिरोहो कुसलमणउदीरणाचेव ।। ३२२ ।। दर्शनज्ञानचारित्रेषु दर्शनज्ञानचारित्रविषयः तपसि च तपोविषयश्च तथा औपचारिकश्चैव प्रतिरूपयोगव्यापारश्चैव, एष तु मोक्षविनयो- मोक्षनिमित्तः पञ्चविधो भवति ज्ञातव्य इति गाथासमासार्थः ।। ३१४ ।। व्यासार्थे दर्शनविनयमाह- द्रव्याणां धर्मास्तिकायादीनां सर्वभावाः सर्वपर्यायाः उपदिष्टाः कथिता 'ये' अगुरुलघ्वादयो यथा येन प्रकारेण जिनवरैः तीर्थकरैः तान्
भावान तथा तेन प्रकारेण श्रद्धत्ते नरः, श्रद्दधानश्च कर्म विनयति यस्माद्दर्शनविनयो भवति तस्माद, दर्शनाद्विनयो दर्शनविनय । इति गाथार्थः ।। ३१५ ।। ज्ञानविनयमाह- ज्ञानं शिक्षति अपूर्वं ज्ञानमादत्ते, ज्ञानं गुणयति गृहीतं सत्प्रत्यावर्त्तयति, ज्ञानेन करोत्ति
कृत्यानि संयमकृत्यानि, एवं ज्ञानी नवं कर्म न बध्नाति प्राक्तनं च विनयति यस्मात् ज्ञानविनीतो ज्ञानेनापनीतकर्मा भवति तस्मादिति गाथार्थः ।। ३१६ ।। चारित्रविनयमाह- अष्टविधं अष्टप्रकारं कर्मचयं कर्मसंघातं प्राग्बद्धं यस्माद् रिक्तं करोति तुच्छतापादनेनापनयति यतमानः क्रियायां यत्नपरस्तथा नवमन्यं च कर्मचयं न बध्नाति यस्मात् चारित्रविनय इति चारित्राद्विनयचारित्रविनयः चारित्रेण विनीतकर्मा भवति तस्मादिति गाथार्थः ।। ३१७ ।। तपोविनयमाह- अपनयति तपसा तमः अज्ञानं
2
॥३७४।।
For Private and Personal Use Only