________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ३७३॥
नवममध्ययन विनयसमाधिः प्रथमोद्देशकः नियुक्ति: ३१३ भावविनयः। नियुक्तिः ३१४-३१६ पञ्चविधमोक्षविनयः।
नि०- एमेव कामविणओ भए अनेअव्वमाणुपुव्वीए । मोक्खंमिऽवि पंचविहो परूवणा तस्सिमा होइ ।। ३१३।। लोकोपचारविनयो लोकप्रतिपत्तिफल:अर्थनिमित्तं च अर्थप्राप्त्यर्थं च कामहेतुश्च कामनिमित्तश्च तथा भयविनयो भयनिमित्तो मोक्षविनयो मोक्षनिमित्तः, एवमुपाधिभेदाद्विनयः खलु पञ्चधा पञ्चप्रकारो भवतीति गाथासमासार्थः ॥३१०॥ व्यासार्थाभिधित्सया तुलोकोपचारविनयमाह- अभ्युत्थानं तदुचितस्यागतस्याभिमुखमुत्थानं अञ्जलिः विज्ञापनादौ, आसनदानं च गृहागतस्य प्रायेण, अतिथिपूजा चाहारादिदानेन 'एष' इत्थंभूतो लोकोपचारविनयः, देवतापूजा च यथाभक्ति बल्याधुपचाररूपा विभवेने ति यथाविभवं विभवोचितेति गाथार्थः ।। ३११ ॥ उक्तो लोकोपचारविनयः, अर्थविनयमाह- अभ्यासवृत्तिः नरेन्द्रादीनां समीपावस्थानं छन्दोऽनुवर्तनं अभिप्रायाराधनं देशकालदानं च कटकादौ विशिष्टनृपतेः प्रस्तावदानम्, तथाऽभ्युत्थानमञ्जलिरासनदानं च नरेन्द्रादीनामेव कुर्वन्ति अर्थकृते अर्थार्थमिति गाथार्थः ॥ ३१२ ।। उक्तोऽर्थविनयः, कामादिविनयमाह- एवमेव यथाऽर्थविनय उक्तोऽभ्यासवृत्त्यादिस्तथा कामविनय: भये चेति भयविनयश्च ज्ञातव्यो विज्ञेयः आनपा परिपाट्या. तथाहिकामिनो वेश्यादीनांकामार्थमेवाभ्यासवृत्त्यादि यथाक्रमं सर्वं कुर्वन्ति प्रेष्याश्च भयेन स्वामिनामिति, उक्तौ कामभयविनयौ, मोक्षविनयमाह- मोक्षेऽपि मोक्षविषयो विनयः पञ्चविधः पञ्चप्रकारः प्ररूपणा निरूपणा तस्यैषा भवति वक्ष्यमाणेति गाथार्थः ।। ३१३॥
नि०-दसणनाणचरित्ते तवे अतह ओवयारिए चेव । एसो अमोक्खविणओ पंचविहो होइ नायव्यो ।। ३१४ ।। नि०-दव्वाण सव्वभावा उवइट्ठाजे जहा जिणवरेहिं । ते तह सद्दहइनरोदसणविणओ हवइ तम्हा ॥ ३१५।। नि०- नाणं सिक्खड़ नाणं गुणेड़ नाणेण कुणइ किच्चाई। नाणी नवं न बंधड़ नाणविणीओ हवड़ तम्हा ।। ३१६ ।।
॥३७३||
For Private and Personal Use Only