________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि०
वृत्तियुतम्
।। ३७२ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ नवममध्ययनं विनयसमाध्याख्यम् ॥ ॥ नवमाध्यने प्रथमोद्देशकः ॥ अधुना विनयसमाध्याख्यमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने निरवद्यं वच आचारे प्रणिहितस्य भवतीति तत्र यत्नवता भवितव्यमित्येतदुक्तम्, इह त्वाचारप्रणिहितो यथोचितविनयसंपन्न एव भवतीत्येतदुच्यते, उक्तं च- आयारपणिहाणमि, से सम्म वट्टई बुहे। णाणादीण विणीए जे, मोक्खट्ठा निव्विगिच्छ ॥ १ ॥ इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च विनयसमाधिरिति द्विपदं नाम, तन्निक्षेपायाह
नि० विणयस्स समाहीए निक्खेवो होइ दोण्हवि चउक्को। दव्वविणयंमि तिणिसो सुवण्णमिचेवमाईणि ।। ३०९ ।। विनयस्य प्रसिद्धतत्त्वस्य समाधेश्च प्रसिद्धतत्त्वस्यैव निक्षेपो- न्यासो भवति द्वयोरपि चतुष्को नामादिभेदात्, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यविनयमाह- द्रव्यविनये ज्ञशरीरभव्यशरीरव्यतिरिक्ते तिनिशो वृक्षविशेष उदाहरणम्, स रथाङ्गादिषु यत्र यत्र यथा यथा विनीयते तत्र तत्र तथा तथा परिणमति, योग्यत्वादिति । तथा सुवर्णमित्यादीनि कटककुण्डलादिप्रकारेण विनयनाद् द्रव्याणि द्रव्यविनयः, आदिशब्दात्तत्तद्योग्यरूप्यादिपरिग्रह इति गाथार्थः ।। ३०९ ।। साम्प्रतं भावविनयमाहनि०- लोगोवयारविणओ अत्थनिमित्तं च कामहेडं च। भयविणय मुक्खविणओ विणओ खलु पंचहा होइ ।। ३१० ।। नि०- अब्भुट्ठाणं अंजलि आसणदाणं अतिहिपूआ य लोगोवयारविणओ देवयपूआ य विहवेणं ।। ३११ ।। नि० अब्भासवित्तिछंदाणुवत्तणं देसकालदाणं च अब्भुट्ठाणं अंजलिआसणदाणं च अत्थकए ।। ३१२ ।।
© आचारप्रणिधाने स सम्यग्वर्त्तते बुधः । ज्ञानादिषु विनीतो यो मोक्षार्थं निर्विचिकित्सकः ॥ १ ॥
For Private and Personal Use Only
नवममध्ययनं विनयसमाधिः,
प्रथमोद्देशकः
नियुक्ति: ३०९
अभिसम्बन्धोविजयविनयनिक्षेपाच निर्युक्तिः
| ३१०-३१२
| भावविनयः ।
।। ३७२ ।।