________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। १५ ।।
www.kobatirth.org
शय्यम्भवेन निर्व्यूढं प्रमाणकाले चोक्तलक्षण इत्यविरोधः, अथवा प्रमाणकालोऽपि भावकाल एव तस्याद्धाकालस्वरूपत्वात्, तस्य च भावत्वादिति गाथासमुदायार्थः । अवयवार्थस्तु सामायिकविशेषविवरणादवसेयः । तथा चाह निर्युक्तिकारः
Acharya Shri Kailassagarsuri Gyanmandir
नि० सामाइय अणुकमओ वण्णेउं विगयपोरिसीए ऊ । निज्जूढं किर सेजंभवेण दसकालियं तेणं ।। १२ ।।
सामायिकं- आवश्यकप्रथमाध्ययनं तस्यानुक्रमः- परिपाटीविशेषः सामायिके वाऽनुक्रमः सामायिकानुक्रमः, ततः सामायिकानुक्रमतः- सामायिकानुक्रमेण वर्णयितुम्, अनन्तरोपन्यस्तगाथाद्वाराणीति प्रक्रमाद् गम्यते, विगतपौरुष्यामेव, तुशब्दस्यावधारणार्थत्वात्, निर्यूढं पूर्वगतादुद्धृत्य विरचितम्, किलशब्दः परोक्षाप्तागमवादसंसूचकः शय्यम्भवेन चतुर्दशपूर्वविदा दशकालिकं प्राग्निरुपिताक्षरार्थं तेन कारणेनोच्यत इति गाथार्थः ॥ श्रुतस्कन्धयोस्तु निक्षेपश्चतुर्विधो द्रष्टव्यो यथाऽनुयोगद्वारेषु, स्थानाशून्यार्थं किञ्चिदुच्यते- इह नोआगमतः ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतं पुस्तकपत्रन्यस्तम्, अथवा सूत्रमण्डजादि, भावश्रुतं त्वागमतो ज्ञाता उपयुक्तः, नोआगमतस्त्विदमेव दशकालिकम्, नोशब्दस्य देशवचनत्वात्, एवं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धः सचेतनादिः, तत्र सचित्तो द्विपदादिः, अचित्तो द्विप्रदेशिकादिः, मिश्रः सेनादि (दे) र्देशादिरिति, तथा भावस्कन्धस्त्वागमतस्तदर्थोपयोगपरिणाम एव, नोआगमतस्तु दशकालिक श्रुतस्कन्ध एवेति, नोशब्दस्य देशवचनत्वादिति, इदानीमध्ययनोद्देशकन्यासप्रस्तावः, तं चानुयोगद्वारप्रक्रमायातं प्रत्यध्ययनं यथासम्भवमोघनिष्पन्ने निक्षेपे लाघवार्थं वक्ष्याम इति ।। ततश्च यदुक्तं दसकालिय सुअक्खंध अज्झयणुद्देस णिक्खिविडं अनुयोगोऽस्य कर्त्तव्य इति, तदंशतः
© क्रियारूपत्वेन ।
For Private and Personal Use Only
प्रथममध्ययनं द्रुमपुष्पिका, निर्युक्तिः १२ दशवैकालि
काभिधान
हेतुः श्रुतस्कन्धयोश्च निक्षेपाः निक्षपाः शास्त्रसमुत्थवक्तव्यतायां 'येने'त्यादीनि | | पञ्चद्वाराणि ।
।। १५ ।।