________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदश
प्रथममध्ययन द्रुमपुष्पिका, नियुक्ति:११ दशवैकालिकस्य कालशब्दस्यनिक्षेपः।
॥१४॥
चिक्कणं खेलं, खासइ य अभिक्खणं ।। ७ ।। संकुचियवलीचम्मो, संपत्तो अट्टमिं दसं। णारीणमणभिप्पेओ, जराए परिणामिओ॥८॥ शालिकणवमी मम्मुही नाम, जनरो दसमस्सिओ। जराघरे विणस्संतो, जीवो वसइ अकामओ॥९॥हीणभिन्नसरो दीणो, विवरीओ विचित्तओ। श्रीहारिक वृत्तियुतम् । दुब्बलो दुक्खिओ सुवइ, संपत्तो दस िदसं॥१०॥ इत्यलं विस्तरेणेति गाथार्थः ।। इदानीं कालनिक्षेपप्रतिपादनायाह
नि०-दव्वे अद्ध अहाउअ उवक्कमे देसकालकाले य । तह य पमाणे वण्णे भावे पगयं तु भावेणं ॥११॥ द्रव्य इति वर्त्तनादिलक्षणो द्रव्यकालो वाच्यः, अद्धे ति चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्यद्धाकालः। समयादिलक्षणो वाच्यः, तथा यथायुष्ककालो देवाद्यायुष्कलक्षणो वाच्यः, तथा उपक्रमकालः अभिप्रेतार्थसामीप्यानयनलक्षणः सामाचार्यायुष्कभेदभिन्नो वाच्यः, तथा देशकालो वाच्यः, देशः प्रस्तावोऽवसरो विभाग: पर्याय इत्यनर्थान्तरम्, ततश्चाभीष्टवस्त्ववाप्त्यवसरः काल इत्यर्थः, तथा कालकालो वाच्यः, तत्रैकः कालशब्दः प्राग्निरूपितशब्दार्थ एव, द्वितीयस्तु सामयिकः, कालो मरणमुच्यते, मरणक्रियायाः कलनं काल इत्यर्थः, च:समुच्चये, तथा प्रमाणकालः अद्धाकालविशेषो दिवसादिलक्षणो वाच्यः, तथा वर्णकालो वाच्यः, वर्णश्चासौ कालश्चेति, भावेत्ति औदयिकादिभावकाल: सादिसपर्यवसानादिभेदभिन्नो वाच्य इति । प्रकृतं तु भावेने ति भावकालेन, इह पुनर्दिवसप्रमाणकालेनाधिकारः, तत्रापि तृतीयपौरुष्या, तत्रापि बहतिक्रान्तयेति । आह- यदुक्तं- पगयं तु भावेणति तत्कथं न विरुध्यते इति?, उच्यते, क्षायोपशमिकभावकाले
चिकणं श्लेष्माण कासति चाभीक्ष्णम् ॥ ७ ।। सङ्कचितवलिचर्मा सम्प्राप्तोऽष्टर्मी दशाम् । नारीणामनभिप्रेतः जरया परिणामितः ॥ ८ ॥ नवमी मृन्मुखी नाम यां नरो दशामाश्रितः । जरागृहे विनश्यन् जीवो वसत्यकामः।।९।। हीनभिन्नस्वरोदीनो विपरीतो विचित्तकः। दुर्बलो दुःखितः स्वपिति संप्राप्तो दशमी दशाम् ॥१०॥
॥१४॥
For Private and Personal Use Only