________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥३६४॥
अष्टममध्ययन आचारप्रणिधिः, सूत्रम् २९-४० क्रोधादीनामिहपरलोकापायाः।
कुर्या दिति एवमित्यभ्युपगमेन, केषामित्याह- आचार्याणां महात्मनां श्रुतादिभिर्गुणैः, तत्परिगृह्य वाचा एवमित्यभ्युपगमेन कर्मणोपपादयेत् क्रियया संपादयेदिति सूत्रार्थः ।। ३३ ॥ तथा 'अधुवं'ति सूत्रम्, अध्रुवं अनित्यं मरणाशङ्कि जीवितं सर्वभावनिबन्धनं ज्ञात्वा । तथा सिद्धिमार्ग सम्यग्दर्शनज्ञानचारित्रलक्षणं विज्ञाय विनिवर्तेत भोगेभ्यो बन्धैकहेतुभ्यः, तथा ध्रुवमप्यायुः परिमितं संवत्सरशतादिमानेन विज्ञायात्मनो विनिवर्तेत भोगेभ्य इति सूत्रार्थः ।। ३४ ।। उपदेशाधिकारे प्रक्रान्तमेव समर्थयन्नाह'जर'त्ति सूत्रम्, जरा वयोहानिलक्षणा यावन्न पीडयति व्याधिः क्रियासामर्थ्यशत्रुर्यावन्न वर्द्धते यावद् इन्द्रियाणि क्रियासामर्थ्योपकारीणि श्रोत्रादीनि न हीयन्ते तावदत्रान्तरे प्रस्ताव इतिकृत्वा धर्म समाचरेच्चारित्रधर्ममिति सूत्रार्थः ।। ३५-३६ ॥ तदुपायमाहकोहं गाहा, क्रोधं मानं च मायां च लोभं च पापवर्धनम्, सर्व एते पापहेतव इति पापवर्द्धनव्यपदेशः, यतश्चैवमतो वमेच्चतुरो दोषान् एतानेव क्रोधादीन् हितमिच्छन्नात्मनः, एतद्वमने हि सर्वसंपदिति सूत्रार्थः ॥ ३७॥ अवमने त्विहलोक एवापायमाह'कोह'त्ति सूत्रम्, क्रोधः प्रीतिं प्रणाशयति, क्रोधान्धवचनतस्तदुच्छेददर्शनात्, मानो विनयनाशनः, अवलेपेन मूर्खतया तदकरणोपलब्धेः, माया मित्राणि नाशयति, कौटिल्यवतस्तत्त्यागदर्शनात्, लोभः सर्वविनाशनः, तत्त्वतस्त्रयाणामपि तद्भाव-भावित्वादिति सूत्रार्थः ॥ ३८॥ यत एवमत:-'उवसमेण'त्ति सूत्रम्, उपशमेन शान्तिरूपेण हन्यात् क्रोधम, उदयनिरोधोदय-प्राप्ताफलीकरणेन, एवं मानं मार्दवेन- अनुच्छ्रिततया जयेत् उदयनिरोधादिनैव, मायां च ऋजुभावेन- अशठतया जयेत् उदय-निरोधादिनैव, एवं लोभं संतोषतः' निःस्पृहत्वेन जयेत्, उदयनिरोधोदयप्राप्ताफलीकरणेनेति सूत्रार्थः ।। ३९॥ क्रोधादीनामेव परलोकापायमाह'कोहो'त्ति सूत्रम्, क्रोधश्च मानश्चानिगृहीतौ- उच्छृङ्खलौ, माया च लोभश्च विवर्धमानौ च वृद्धिं गच्छन्ती, चत्वार एते क्रोधादयः कृत्स्नाः संपूर्णाः कृष्णा वा क्लिष्टाः कषायाः सिञ्चन्ति अशुभभावजलेन मूलानि तथाविधकर्मरूपाणि पुनर्भवस्य पुनर्जन्मतरोरिति
||३६४॥
For Private and Personal Use Only