________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shes kailassagarsun Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥३६०॥
अष्टममध्ययन आचारप्रणिधिः, सूत्रम् १७-२८ उपाश्रयगोचरप्रवेशादि
विधिः।
रूपमथवा आसनं अपवादगृहीतं पीठकादि प्रत्युपेक्षतेति सूत्रार्थः ॥१७॥ तथा 'उच्चारं ति सूत्रम्, उच्चार प्रस्रवणं श्लेष्म सिंघाणं जल्लमिति प्रतीतानि, एतानि प्रासुकं प्रत्युपेक्ष्य स्थण्डिलमिति वाक्यशेषः, परिस्थापयेद् व्युत्सृजेत् संयत इति सूत्रार्थ : ।।१८॥ उपाश्रयस्थानविधिरुक्तो, गोचरप्रवेशमधिकृत्याह-'पविसित्तु' सूत्रम्, प्रविश्य परागारं परगृहं पानार्थं भोजनस्य ग्लानादेरौषधार्थ ।। वा यतं- गवाक्षकादीन्यनवलोकयन् तिष्ठेदुचितदेशे, मितं यतनया भाषेत आगमनप्रयोजनादीति, न च रूपेषु दातृकान्तादिषु । मनः कुर्यात्, एवंभूतान्येतानीति न मनो निवेशयेत्, रूपग्रहणं रसाधुपलक्षणमिति सूत्रार्थः ।। १९॥ गोचरादिगत एव केनचित्तथाविधं पृष्ट एवं ब्रूयादित्याह-'बहु'न्ति सूत्रम्, अथवा उपदेशाधिकारे सामान्येनाह-'बहु'न्ति सूत्रम्, बहु अनेकप्रकारं । शोभनाशोभनं शृणोति कर्णाभ्याम, शब्दजातमिति गम्यते, तथा बहु अनेकप्रकारमेव शोभनाशोभनभेदेनाक्षिभ्यां पश्यति,
माश्रित्यरूपजातमिति गम्यते, एवं न च दृष्टं श्रुतं सर्वं स्वपरोभयाहितमपि 'श्रुता ते रुदती पत्नी'त्येवमादि भिक्षुराख्यातुमर्हति, चारित्रोपघातात्, अर्हति च स्वपरोभयहितं 'दृष्टस्ते राजानमुपशामयशिष्य' इति सूत्रार्थः।।२०।। एतदेव स्पष्टयन्नाह-'सुअंति सूत्रम्, श्रुतं वा अन्यतः यदिवा दृष्टं स्वयमेव नालपेत्न भाषेत, औपघातिकं उपघातेन निर्वृत्तं तत्फलं वा, यथा-चौरस्त्वमित्यादि, अतो नालपेदपीति गम्यते, तथा न च केनचिदुपायेन सूक्ष्मयाऽपि भङ्गया गृहियोगं गृहिसंबन्धं तद्बालग्रहणादिरूपं गृहिव्यापार वा- प्रारम्भरूपं समाचरेत् कुर्यान्नैवेति सूत्रार्थः ॥ २१॥ किं च-‘णिट्ठाणं'ति सूत्रम्, निष्ठानं सर्वगुणोपेतं संभृतमन्नं रसं निर्मूढमेतद्विपरीतं कदशनम्, एतदाश्रित्याद्यं भद्रकं द्वितीयं पापकमिति वा, पृष्टो वापि परेण कीदृग् लब्धमिति अपृष्टो वा। स्वयमेव लाभालाभं निष्ठानादेर्न निर्दिशेद, अद्य साधु लब्धमसाधु वा शोभनमिदमपरमशोभनं वेति सूत्रार्थः ।। २२ ।। किं च'न य'त्ति सूत्रम्, न च भोजने गृद्धः सन् विशिष्टवस्तुलाभायेश्वरादिकुलेषु मुखमङ्गलिकया चरेत, अपितु उञ्छं भावतो
||३६०॥
For Private and Personal Use Only