________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
888888888888888
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम्
अष्टममध्ययन आचारप्रणिधिः
२९५-२९८
प्रणिधिमाह
नि०-सहेसु अरूवेसु अगंधेसु रसेसु तह य फासेसु । नवि रजड़ न वि दुस्सइ एसा खलु इंदिअप्पणिही ।। २९५ ।। शब्देषु च रूपेषु च गन्धेषु रसेषु तथा च स्पर्शेषु एतेष्विन्द्रियार्थेष्विष्टानिष्टेषु चक्षुरादिभिरिन्द्रियैर्नापि रज्यते नापि द्विष्यते एष ।
नियुक्तिः खलु माध्यस्थ्यलक्षण इन्द्रियप्रणिधिः प्रशस्त इति भावार्थः, अन्यथा त्वप्रशस्तः ।। २९५ ।। तत्र दोषमाह
द्विविधो भावनि०-सोइंदिअरस्सीहि उ मुक्काहिं सहमुच्छिओ जीवो। आइअइ अणाउत्तो सद्दगुणसमुट्ठिए दोसे ।। २९६ ।।।
प्रणिधिः। श्रोत्रेन्द्रियरश्मिभिः श्रोत्रेन्द्रियरचुभिः मुक्ताभिः उच्छृङ्खलाभिः, किमित्याह- शब्दमूर्छितःशब्दगृद्धो जीवः आदत्ते गृह्णात्यअनुपयुक्तः सन् , कानित्याह- शब्दगुणसमुत्थितान्दोषान्- शब्द एवेन्द्रियगुणस्तत्समुत्थितान् दोषान्- बन्धवधादीन् श्रोत्रेन्द्रियरज्जुभिरादत्त इति गाथार्थः ।। २९६ ।। शेषेन्द्रियातिदेशमाह
नि०-जह एसो सहेसुंएसेव कमो उसेसएहिं पि। चउहिपि इंदिएहिं रूवे गंधे रसे फासे ।। २९७ ।। यथैष शब्देषु शब्दविषयः श्रोत्रेन्द्रियमधिकृत्य दोष उक्तः, एष एव क्रमः शेषैरपि चक्षुरादिभिश्चतुर्भिरपीन्द्रियैर्दोषाभिधाने द्रष्टव्यः, तद्यथा- चक्खिन्दिअरस्सीहि उ, इत्यादि, अत एवाह- रूपे गन्धे रसे स्पर्श रूपादिविषय इति गाथार्थः ।। २९७ ।। अमुमेवार्थं दृष्टान्ताभिधानेनाह
नि०- जस्स खलु दुप्पणिहिआणि इंदिआई तवंचरंतस्स । सो हीरइ असहीणेहिं सारही वा तुरंगेहिं ।। २९८ ।। यस्य खल्विति यस्यापि दुष्प्रणिहितानीन्द्रियाणि विश्रोतोगामीनि तपश्चरत इति तपोऽपि कुर्वतः स तथाभूतो ह्रियते अपनीयते इन्द्रियैरेव निर्वाणहेतोश्चरणात्, दृष्टान्तमाह-'अस्वाधीनैः'अस्ववशैः सारथिरिव' रथनेतेव तुरङ्गमैः'अश्वैरिति गाथार्थः ।। २९८ ।।
॥३५१।।
For Private and Personal Use Only