________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
।। ३५२ ।।
www.kobatirth.org
उक्त इन्द्रियप्रणिधिः, नोइन्द्रियप्रणिधिमाह
नि० कोहं माणं मायं लोहं च महत्भयाणि चत्तारि । जो संभइ सुद्धप्पा एसो नोइंदिअप्पणिही ।। २९९ ।। क्रोधं मानं मायां लोभं चेत्येतेषां स्वरूपमनन्तानुबन्ध्यादिभेदभिन्नं पूर्ववत्, एत एव च महाभयानि चत्वारि, सम्यग्दर्शनादिप्रतिबन्धरूपत्वात् । एतानि यो रुणद्धि शुद्धात्मा उदयनिरोधादिना एष निरोद्धा क्रोधादिनिरोधपरिणामानन्यत्वान्नोइन्द्रियप्रणिधिः, कुशलपरिणामत्वादिति गाथार्थः ।। २९९ ।। एतदनिरोधे दोषमाह
नि०- जस्सवि अ दुप्पणिहिआ होंति कसाया तवं चरंतस्स । सो बालतवस्सीविव गयण्हाणपरिस्समं कुणइ ।। ३०० ।। यस्यापि कस्यचिद्व्यवहारतपस्विनो दुष्प्रणिहिता- अनिरुद्धा भवन्ति कषायाः क्रोधादयः तपश्चरतः तपः कुर्वत इत्यर्थः, स बालतपस्वीव उपवासपारणकप्रभूततरारम्भको जीवो (यथा) गजस्नानपरिश्रमं करोति, चतुर्थषष्ठादिनिमित्ताभिधानतः प्रभूतकर्मबन्धोपपत्तेरिति गाथार्थः ॥ ३०० ॥ अमुमेवार्थं स्पष्टतरमाह
नि०- सामन्नमणुचरंतस्स कसाया जस्स उक्कडा होंति । मन्नामि उच्छुफुल्लं व निष्फलं तस्स सामन्नं ।। ३०१ ।। श्रामण्यमनुचरतः श्रमणभावमपि द्रव्यतः पालयत इत्यर्थः, कषाया यस्योत्कटा भवन्ति क्रोधादयः मन्ये इक्षुपुष्पमिव निष्फलं निर्जराफलमधिकृत्य तस्य श्रामण्यमिति गाथार्थ: ।। ३०१ ।। उपसंहरन्नाह
नि० एसो दुविहो पणिही सुद्धो जड़ दोसु तस्स तेसिं च । एत्तो पसत्थमपसत्थ लक्खणमज्झत्थनिप्फन्नं ।। ३०२ ।। एषः अनन्तरोदितो द्विविधः प्रणिधिः इन्द्रियनोइन्द्रियलक्षणः शुद्ध इति निर्दोषो भवति, यदि द्वयोः बाह्याभ्यन्तरचेष्टयोः © आवश्यके विस्तरेण पूर्वं व्याख्यानात् ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
अष्टममध्ययनं
आचार
प्रणिधिः, निर्युक्तिः
२९९-३००
द्विविधो भावप्रणिधिः । निर्युक्तिः ३०१-३०२ प्रणिधेरुप
| संहारः ।
।। ३५२ ।।