________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||३५०॥
अष्टममध्ययन आचारप्रणिधिः, नियुक्ति २९३-२९४ अभिसम्बन्धः प्रणिधिप्रतिपादनच।
॥ अथ अष्टममध्ययनं आचारप्रणिध्याख्यम् ।। व्याख्यातं वाक्यशुझ्यध्ययनम्, इदानीमाचारप्रणिध्याख्यमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययने साधुना वचनगुणदोषाभिज्ञेन निरवद्यवचसा वक्तव्यमित्येतदुक्तम्, इह तु तन्निरवद्यं वच आचारे प्रणिहितस्य भवतीति तत्र यत्नवता भवितव्यमित्येतदुच्यते, उक्तंच- पणिहाणरहिअस्सेह, निरवजपि भासिओसावजतुल विन्नेअं, अज्झत्थेणेह संवुडम्।।१।। इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र चाचारप्रणिधिरिति द्विपदं नाम, तत्राचारनिक्षेपमतिदिशन् प्रणिधिं च प्रतिपादयन्नाह
नि०-जो पुव्विं उद्दिट्टो आयारो सो अहीणमइरित्तो। दुविहो अहोइ पणिही दव्वे भावे अनायव्वो।। २९३ ।। य: पूर्व क्षुल्लिकाचारकथायामुद्दिष्ट आचार: सोऽहीनातिरिक्त:- तदवस्थ एवेहापि द्रष्टव्य इति वाक्यशेषः, क्षुण्णत्वान्नामस्थापने अनादृत्य प्रणिधिमधिकृत्याह- द्विविधश्च भवति प्रणिधिः, कथमित्याह- द्रव्य इति द्रव्यविषयो भाव इति भावविषयश्च । ज्ञातव्य इति गाथार्थः ।। २९३ ॥ तत्र
नि०-दव्वे निहाणमाई मायपउत्ताणि चेव दव्वाणि । भाविदिअनोइंदिअदुविहो उ पसत्थ अपसत्थो ।। २९४ ।। द्रव्य इति द्रव्यविषयः प्रणिधिः निधानादिप्रणिहितं निधानं निक्षिप्तमित्यर्थः, आदिशब्दः स्वभेदप्रख्यापकः, मायाप्रयुक्तानि चेह द्रव्याणि द्रव्यप्रणिधिः, पुरुषस्य स्त्रीवेषेण पलायनादिकरणं स्त्रियो वा पुरुषवेषेणेत्यादि । तथा भाव इति भावप्रणिधिढिविधः- इन्द्रियप्रणिधि!इन्द्रियप्रणिधिश्च, तत्रेन्द्रियप्रणिधिर्द्विविध:- प्रशस्तोऽप्रशस्तश्चेति गाथार्थः ।। २९४ ।। प्रशस्तमिन्द्रिय
प्रणिधानरहितस्येह निरवद्यमपि भाषितम् । सावद्यतुल्यं विज्ञेयं अध्यात्मस्थेनेह संवृतम्॥१॥
SBDD003BHERE
॥३५०।।
For Private and Personal Use Only