________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||३४४||
सप्तममध्ययन वाक्यशुद्धिः, मूत्रम् ४१-४२ सुकृतमित्यादि सावध वर्जनम्। सूत्रम् ४३ सर्वोत्कृष्ट
वर्तमानं वाशब्दाद्धविष्यत्कालभाविनं वा ज्ञात्वा सावा नालपेत् सपापं न ब्रूयात् मुनिः साधुरिति सूत्रार्थः ।। ४०॥
सुकडित्ति सुपक्कित्ति, सुच्छिन्ने सुहडे मडे । सुनिट्ठिए सुलट्ठित्ति, सावजं वजए मुणी।। सूत्रम् ४१ ।। पयत्तपक्कत्ति व पक्कमालवे, पयत्तछिन्नत्ति व छिन्नमालवे। पयत्तलट्ठित्ति व कम्महेउअं, पहारगाढत्ति व गाढमालवे। सूत्रम् ४२।। तत्र निष्ठितं नैवं ब्रूयादित्याह-'सुकडि'त्ति सूत्रम्, सुकृत मिति सुष्टु कृतं सभादि सुपक्व मिति सुष्ठ पक्वं सहस्रपाकादि। सुच्छिन्न मिति सुष्टु छिन्नं तद्वनादि सुहृत मिति सुष्ठु हृतं क्षुद्रस्य वित्तं सुमृत इति सुष्ठु मृतः प्रत्यनीक इति, अत्रापि सुशब्दोऽनुवर्तते,
सुनिष्ठित मिति सुष्ठु निष्ठितं वित्ताभिमानिनो वित्तं सुलटि त्ति सुष्टु सुन्दरा कन्या इत्येवं सावद्यमालपनं वर्जयेद् मुनिः, । अनुमत्यादिदोषप्रसङ्गात्, निरवद्यं तु न वर्जयेत्, यथा- सुकृत मिति सुष्ठ कृतं वैयावृत्त्यमनेन सुपक्व मिति सुष्ठु पक्वं ब्रह्मचर्य
साधोः सुच्छिन्न मिति सुष्टु छिन्नं स्नेहबन्धनमनेन, सुहृत मिति सुष्ठु हृतं शिक्षकोपकरणमुपसर्गे सुमृत इति सुष्ठु मृतः पण्डितमरणेन मित्यादिसाधुरिति, अत्रापि सुशब्दोऽनुवर्त्तते, सुनिष्ठित मिति सुष्ठु निष्ठितं कर्माप्रमत्तसंयतस्य सुलट्ठ त्ति सुष्टु सुन्दरा साधुक्रियेत्येवमादीति ।।
वर्जनम्। । सूत्रार्थः । ४१ उक्तानुक्तापवादविधिमाह-‘पयत्त'त्ति सूत्रम्, प्रयत्नपक्क मिति वा प्रयत्नपक्वमेतत् पक्कं सहस्रपाकादि
ग्लानप्रयोजन एवमालपेत्, तथा प्रयत्नच्छिन्न मिति वा प्रयत्नच्छिन्नमेतत् छिन्नं वनादि साधुनिवेदनादौ एवमालपेत्, तथा प्रयत्नलष्टे ति वा प्रयत्नसुन्दरा कन्या दीक्षिता सती सम्यक् पालनीयेति कर्महेतुक मिति सर्वमेव वा कृतादि कर्मनिमित्तमालपेदिति योगः, तथा गाढप्रहार मिति वा कञ्चन गाढमालपेत्- गाढप्रहारं ब्रूयात् क्वचित्प्रयोजने, एवं हि तदप्रीत्यादयो दोषाः । परिहृता भवन्तीति सूत्रार्थः ॥ ४२ ॥
सव्वुक्कसं परग्घं वा, अउलं नत्थि एरिसं । अविक्किअमवत्तव्वं, अविअत्तं चेव नो वए ।। सूत्रम् ४३ ।।
सावध
For Private and Personal Use Only