________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailasagarsun Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम्
सूत्रम्
113४३॥
नदीमधिकृत्य वाग्विधिः।
। केनचित्पृष्टः सन्नो वदेत्, अधिकरणविघातादिदोषप्रसङ्गादिति सूत्रार्थः ॥ ३६॥ प्रयोजने पुनरेवं वदेदित्याह- संखडि न्ति । सप्तममध्ययनं सूत्रम्, संखडि संखडिं ब्रूयात, साधुकथनादौ संकीर्णा संखडीत्येवमादि, पणितार्थ इति स्तेनकं वदेत्, शैक्षकादिकर्मविपाक
वाक्यशुद्धिः, दर्शनादौ, पणितेनार्थोऽस्येति पणितार्थः, प्राणद्यूतप्रयोजन इत्यर्थः, तथा बहुसमानि तीर्थानि आपगानां नदीनां व्यागृणीयात् ।। साध्वादिविषय इति सूत्रार्थः ।। ३७॥
तहा नईओ पुण्णाओ, कायतिजत्ति नो वए। नावाहिं तारिमाउत्ति, पाणिपिजत्ति नो वए।। सूत्रम् ३८।। बहुवाहडा अगाहा, बहुसलिलुप्पिलोदगा। बहुवित्थडोदगा आवि, एवं भासिज्ज पन्नवं ।। सूत्रम् ३९ ।। तहेव सावजं जोगं, परस्सट्ठा अनिट्ठि। कीरमाणंति वा नच्चा, सावजं न लवे मुणी ।। सूत्रम् ४० ।। वाग्विधिप्रतिषेधाधिकार एवेदमाह-'तहा नईउ'त्ति सूत्रम्, तथा नद्यः पूर्णा भृता इति नो वदेत्, प्रवृत्तश्रवणनिवर्त्तनादिदोषात्, तथा कायतरणीयाः शरीरतरणयोग्या इति नो वदेत्, साधुवचनतोऽविघ्नमिति प्रवर्त्तनादिप्रसङ्गात्, तथा नौभिः-द्रोणीभिस्तरणीयाः- तरणयोग्या इत्येवं नो वदेत्, अन्यथा विघ्नशङ्कया तत्प्रवर्त्तनात् तथा प्राणिपेयाः तटस्थप्राणिपेया नो वदेदिति, तथैव प्रवर्तनादिदोषादिति सूत्रार्थः ।। ३८॥ प्रयोजने तु साधुमार्गकथनादावेवं भाषेतेत्याह- बहुवाहड त्ति सूत्रम्, बहुभृताः प्रायशो भृता इत्यर्थः, तथा अगाधा इति बह्वगाधाः प्रायो गम्भीराः, तथा बहुसलिलोत्पीलोदकाः प्रतिस्रोतोवाहितापरसरित इत्यर्थः, तथा विस्तीर्णोदकाश्च स्वतीरप्लावनप्रवृत्तजलाश्च, एवं भाषेत प्रज्ञावान् साधुः, न तु तदाऽऽगतपृष्टो न वेदम्यहमिति बूयात्, प्रत्यक्षमृषावादित्वेन तत्प्रद्वेषादिदोषप्रसङ्गादिति सूत्रार्थः ॥ ३९॥ वाग्विधिप्रतिषेधाधिकार एवेदमाह-'तहेव'त्ति सूत्रम्, तथैव सावा सपापं योग व्यापारमधिकरणं सभादिविषयं परस्यार्थाय परनिमित्तं निष्ठितं निष्पन्न तथा क्रियमाणं वा
CENE
11३४३॥
For Private and Personal Use Only