________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तममध्ययन
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ३३५॥
विवर्जनम्।
वक्ति भूतोपघातिनीं वाचं?, स सुतरां बद्ध्यत इति सूत्रार्थः॥ ५॥ 'तम्ह'त्ति सूत्रम्, यस्माद्वितथं तथामूर्त्यपि वस्त्वङ्गीकृत्य भाषमाणो बद्ध्यते तस्माद्गमिष्याम एव श्व इतोऽन्यत्र, वक्ष्याम एव श्वस्तत्तदौषधनिमित्तमिति, अमुकं वा नः कार्यं वसत्यादि।
वाक्यशुद्धिः,
सूत्रम् ८-१० भविष्यत्येव, अहं चेदं लोचादि करिष्यामि नियमेन, एष वासाधुरस्माकं विश्रामणादि करिष्यत्येवेति सूत्रार्थः ॥६॥ एवमाई'त्ति
शतिभाषा सूत्रम्, एवमाद्या तु या भाषा, आदिशब्दात् पुस्तकं ते दास्याम्येवेत्येवमादिपरिग्रहः, एष्यत्काले भविष्यत्कालविषया, बहुविघ्नत्वात् मुहूर्तादीनां शङ्किता किमिदमित्थमेव भविष्यत्युतान्यथेत्यनिश्चितगोचरा, तथा साम्प्रतातीतार्थयोरपि या शङ्किता, साम्प्रतार्थे स्त्रीपुरुषाविनिश्चये एष पुरुष इति, अतीतार्थेऽप्येवमेव बलीवर्दतत्स्त्र्याद्यनिश्चये तदाऽत्र गौरस्माभिदृष्ट इति।। याप्येवंभूता भाषाशङ्किता तामपि धीरो विवर्जयेत्, तत्तथाभावनिश्चयाभावेन व्यभिचारतो मृषात्वोपपत्तेः, विघ्नतोऽगमनादौ गृहस्थमध्ये लाघवादिप्रसङ्गात्, सर्वमेव सावसरं वक्तव्यमिति सूत्रार्थः ।। ७।। किंच
अईअंमि अकालंमि, पञ्चुप्पण्णमणागए। जमझे तु न जाणिज्जा, एवमेअंति नो वए ।। सूत्रम् ८।। अईअंमि अकालंमि, पञ्चुप्पण्णमणागए। जत्थ संका भवे तंतु, एवमेअंति नो वए।। सूत्रम् ॥
अईयंमि अकालंमि, पचप्पण्णमणागए। निस्संकिअंभवे जंतु, एवमेअंतु निहिसे ।। सूत्रम् १०॥ 'अईयंमि'त्ति सूत्रम्, अतीते च काले तथा प्रत्युत्पन्ने वर्तमानेऽनागते च यमर्थं तु न जानीयात् सम्यगेवमयमिति, तमङ्गीकृत्य एवमेतदिति न ब्रूयादिति सूत्रार्थः, अयमज्ञातभाषणप्रतिषेधः ।।८।। तथा-'अईयम्मिति सूत्रम्, अतीते च काले प्रत्युत्पन्नेऽ-- नागते यत्रार्थे शङ्का भवेदिति तमप्यर्थमाश्रित्यैवमेतदिति न ब्रूयादिति सूत्रार्थः, अयमपि विशेषतः शतिभाषणप्रतिषेधः ।। ९॥ तथा-'अईयमि'त्ति सूत्रम्, अतीते च काले प्रत्युत्पन्नेऽनागते निःशङ्कितं भवेत्, यदर्थजातं तुशब्दादनवद्यम्, तदेवमेतदिति ।
राजपात
३३५।।
For Private and Personal Use Only