________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि०
वृत्तियुतम्
।। ३३४ ।।
www.kobatirth.org
भाषा तथाभूतोक्ता, साम्प्रतं यथाभूता वाच्या तथाभूतामाह- 'असच्चमोस' ति सूत्रम्, असत्यामृषां उक्तलक्षणां सत्यां च उक्तलक्षणामेव, इयं च सावद्यापि कर्कशापि भवत्यत आह- असावद्यां अपापां अकर्कशां अतिशयोक्त्या ह्यमत्सरपूर्वी संप्रेक्ष्य स्वपरोपकारिणीति बुद्ध्याऽऽलोच्य असंदिग्धां स्पष्टामक्षेपेण प्रतिपत्तिहेतुं गिरं वाचं भाषेत ब्रूयात् प्रज्ञावान् बुद्धिमान् साधुरिति सूत्रार्थः ।। ३ । साम्प्रतं सत्यासत्यामृषाप्रतिषेधार्थमाह- 'एअं च'त्ति सूत्रम्, एतं चार्थं अनन्तरप्रतिषिद्धं सावद्यकर्कशविषयं अन्यं वा एवंजातीयम्, प्राकृतशैल्या यस्तु नामयति शाश्वतं य एव कश्चिदर्थो नामयति- अननुगुणं करोति शाश्वतं मोक्षं तमाश्रित्य ससाधुः पूर्वोक्तभाषाभाषकत्वेनाधिकृतो भाषां सत्यामृषामपि पूर्वोक्ताम्, अपिशब्दात्सत्यापि या तथाभूता तामपि धीरो बुद्धिमान् विवर्जयेत् न ब्रूयादिति भावः । आह- सत्यामृषाभाषाया ओघत एव प्रतिषेधात्तथाविधसत्यायाश्च सावद्यत्वेन गतार्थं सूत्रमिति, उच्यते, मोक्षपीडाकरं सूक्ष्ममप्यर्थमङ्गीकृत्यान्यतरभाषाभाषणमपि न कर्तव्यमित्यतिशयप्रदर्शनपरमेतददुष्टमेवेति सूत्रार्थः ॥ ४ ॥
वितहपि तहामुत्तिं, जं गिरं भासए नरो। तम्हा सो पुट्ठो पावेणं, किं पुणं जो मुसं वए ? ।। सूत्रम् ५ ।।
तम्हा गच्छामो वक्खामो, अमुगं वा णे भविस्सइ । अहं वा णं करिस्सामि, एसो वा णं करिस्सइ । सूत्रम् ६ ।। एवमाइ उ जा भासा, एसकालंमि संकिआ संपयाइ अमठ्ठे वा, तंपि धीरो विवज्जए । सूत्रम् ७ ॥
साम्प्रतं मृषाभाषासंरक्षणार्थमाह- 'वितहंपि' त्ति सूत्रम्, वितथं अतथ्यं तथामूर्त्यपि कथंचित्तत्स्वरूपमपि वस्तु, अपिशब्दस्य व्यवहितः संबन्धः, एतदुक्तं भवति- पुरुषनेपथ्यस्थितवनिताद्यप्यङ्गीकृत्य यां गिरं भाषते नरः, इयं स्त्री आगच्छति गाय वेत्यादिरूपाम्, तस्माद् भाषणादेवंभूतात्पूर्वमेवासौ वक्ता भाषणाभिसन्धिकाले स्पृष्टः पापेन बद्धः कर्मणा, किं पुनर्यो मृषा
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सप्तममध्ययनं वाक्यशुद्धिः, सूत्रम ५-७ वितथादि
भाषा
विवर्जनम्।
।। ३३४ ।।