________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम् ।। ३२९ ।।
www.kobatirth.org
नि० सव्वावि असा दुविहा पचत्ता खलु तहा अपजत्ता । पढमा दो पजत्ता उवरिल्ला दो अपजत्ता ।। २७८ ।। सर्वाऽपि च सा सत्यादिभेदभिन्ना भाषा द्विविधा पर्याप्ता खलु तथाऽपर्याप्ता, पर्याप्ता या एकपक्षे निक्षिप्यते सत्या वा मृषा वेति तद्व्यवहारसाधनी, तद्विपरीता पुनरपर्याप्ता, अत एवाह-प्रथमे द्वे भाषे सत्यामृषे पर्याप्ते, तथास्वविषयव्यवहारसाधनात्, तथा उपरितने द्वे सत्यामृषाऽसत्यामृषाभाषे अपर्याप्ते, तथास्वविषयव्यवहारासाधनादिति गाथार्थः ।। २७८ ।। उक्ता द्रव्यभावभाषा, साम्प्रतं श्रुतभावभाषामाह
नि०- सुअधम्मे पुण तिविहा सच्चा मोसा असच्चमोसा अ । सम्मद्दिट्ठी उ सुओवउत्तु सो भासई सच्चं ।। २७९ ।। श्रुतधर्म इति श्रुतधर्मविषया पुनस्त्रिविधा भवति भावभाषा, तद्यथा सत्या मृषा असत्यामृषा चेति, तत्र सम्यग्दृष्टिस्तु सम्यग्दृष्टिरेव श्रुतोपयुक्त इत्यागमे यथावदुपयुक्तो यः स भाषते सत्यं आगमानुसारेण वक्तीति गाथार्थः ।। २७९ ।।
नि० सम्मद्दिट्ठी उ सुअंमि अणुवउत्तो अहेउगं चेव । जं भासइ सा मोसा मिच्छादिट्ठीवि अ तहेव ।। २८० ।। सम्मद्दिट्ठी सम्यग्दृष्टिरेव सामान्येन श्रुते आगमे अनुपयुक्तः प्रमादाद्यत्किंचिद् अहेतुकं चैव युक्तिविकलं चैव यद्भाषते तन्तुभ्यः पट एव भवतीत्येवमादि सा मृषा, विज्ञानादेरपि तत एव भावादिति । मिथ्यादृष्टिरपि तथैवे त्युपयुक्तोऽनुपयुक्तो वा यद्भाषते सा मृषैव, घुणाक्षरन्याय (यात्) संवादेऽपि सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवदिति गाथार्थः ।। २८० ॥
नि०- हवइ उ असच्चमोसा सुअंमि उवरिल्लए तिनाणंमि। जं उवउत्तो भासइ एतो वोच्छं चरितंमि ।। २८१ ।।
भवति तु असत्यामृषा श्रुते आगम एव परावर्तनादि कुर्वतस्तस्यामन्त्रण्यादिभाषारूपत्वात्तथा उपरितने अवधिमनः पर्यायकेवललक्षणे त्रिज्ञान इति ज्ञानत्रये यदुपयुक्तो भाषते सा असत्यामृषा, आमन्त्रण्यादिवत् तथाविधाध्यवसायप्रवृत्तेः, इत्युक्ता
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सप्तममध्ययनं
वाक्यशुद्धिः, निर्युक्तिः २७८
असत्या मृषाभाषा ।
निर्युक्तिः | २७९-२८०
| श्रुतभावभाषा।
निर्युक्तिः २८१ शुद्धिनिक्षेपाः।
।। ३२९ ।।