________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तममध्ययन वाक्यशुद्धिः,
श्रीदशवैकालिक श्रीहारि० वृनियुतम् ।। ३२८॥
नियुक्तिः
२७६-२७७ असत्यामृषाभाषा।
कस्मिंश्चित् प्रयोजने सहायांस्त्वरयन् परिणतप्राये वासर एव रजनी वर्तत इति ब्रवीति, अद्धद्धमिश्रा च दिवसरजन्येकदेशः अद्धद्धोच्यते, तद्विषया सत्यामृषा यथा कस्मिंश्चित् प्रयोजने त्वरयन् प्रहरमात्र एव मध्याह्न इत्याह । एवं मिश्रशब्दः प्रत्येकमभिसंबध्यत इति गाथार्थः ।। २७५ ।। उक्ता सत्यामृषा, साम्प्रतमसत्यामृषामाह
नि०- आमंतणि आणवणी जायणि तह पुच्छणी अ पन्नवणी । पञ्चक्खाणी भासा भासा इच्छाणुलोमा अ॥२७६ ।। ___ आमन्त्रणी यथा हे देवदत्त इत्यादि, एषा किलाप्रवर्तकत्वात्सत्यादिभाषात्रयलक्षणवियोगतस्तथाविधदलोत्पत्तेरसत्याअमृषेति, एवमाज्ञापनी यथेदं कुरु, इयमपि तस्य करणाकरणभावतः परमार्थेनैकत्राप्यनियमात्तथाप्रतीतेः अदुष्टविवक्षाप्रसूतत्वादसत्यामृषेति, एवं स्वबुद्ध्याऽन्यत्रापि भावना कार्येति । याचनी यथा भिक्षां प्रयच्छेति, तथा प्रच्छनी यथा कथमेतदिति, प्रज्ञापनी यथा हिंसाप्रवृत्तो दुःखितादिर्भवति, प्रत्याख्यानी भाषा यथाऽदित्सेति भाषा, इच्छानुलोमा च यथा केनचित्कश्चिदुक्तः साधुसकाशं गच्छाम इति, स आह-शोभनमिदमिति गाथार्थः ।। २७६ ।।
नि०- अणभिग्गहिआ भासा भासा अ अभिग्गहमि बोद्धव्वा । संसयकरणी भासा वायड अवायडा चेव ।।२७७॥ अनभिगृहीता भाषा अर्थमनभिगृह्य योच्यते डित्थादिवत्, भाषा चाभिग्रहे बोद्धव्या- अर्थमभिगृह्य योच्यते घटादिवत्, तथा संशयकरणी च भाषा- अनेकार्थसाधारणा योच्यते सैन्धवमित्यादिवत्, व्याकृता- स्पष्टा प्रकटार्था देवदत्तस्यैष भ्रातेत्यादिवत्, अव्याकृताचैव-अस्पष्टाऽप्रकटार्था बालकादीनां थपनिकेत्यादिवदिति गाथार्थः ॥ २७७ ।। उक्ता असत्यामषा, साम्प्रतमोघत एवास्याः प्रविभागमाह
॥ ३२८॥
For Private and Personal Use Only