________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ||३२७॥
सप्तममध्ययन वाक्यशुद्धिः, नियुक्ति:२७५ मषाभाषायाः।
सत्यामुषा भाषायाः दशप्रकाराः।
प्रभृतय आहुः-नष्टो गोलक इति, लोभनिसृता वणिक्प्रभृतीनामन्यथाक्रीतमेवेत्थमिदं क्रीतमित्यादि, प्रेमनिसृता अतिरक्तानां दासोऽहं तवेत्यादि, द्वेषनिसृता मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि, हास्यनिसृता कान्दर्पिकानां किंचित्कस्यचित्संबन्धि गृहीत्वा पृष्ठानां न दृष्टमित्यादि, भयनिसृता तस्करादिगृहीतानां तथा तथा असमञ्जसाभिधानम्, आख्यायिकानिसृता तत्प्रतिबद्धोऽसत्प्रलापः, उपघातनिसृता अचौरे चौर इत्यभ्याख्यानवचनमिति गाथार्थः ।। २७४ ।। उक्ता मृषा, साम्प्रतं सत्यामृषामाह
नि०-उप्पन्नविगयमीसग जीवमजीवे अजीवअजीवे। तहऽणंतमीसगा खलु परित्त अद्धा अ अद्धद्धा ।। २७५ ।। उत्पन्नविगतमिश्रके ति उत्पन्नविषया सत्यामृषा यथैकं नगरमधिकृत्यास्मिन्नद्य दश दारका उत्पन्ना इत्यभिदधतस्तन्न्यूनाधिकभावे, व्यवहारतोऽस्याः सत्यामृषात्वात्, श्वस्ते शतं दास्यामि इत्यभिधाय पञ्चाशत्स्वपि दत्तेषु लोके मृषात्वादर्शनात्, अनुत्पन्नेष्वेवादत्तेष्वेव (च) मृषात्वसिद्धेः, सर्वथा क्रियाभावेन सर्वथा व्यत्ययादित्येवं विगतादिष्वपि भावनीयमिति, तथा च विगतविषया सत्यामृषा यथैकं ग्राममधिकृत्यास्मिन्नद्य दश वृद्धा विगता इत्यभिदधतस्तन्न्यूनाधिकभावे, एवं मिश्रका सत्यामृषा उत्पन्नविगतोभयसत्यामृषा, यथैकं पत्तनमधिकृत्याहास्मिन्नद्य दश दारका जाता दश च वृद्धा विगता इत्यभिदधतस्तन्न्यूनाधिकभावे, जीवमिश्रा-जीवविषया सत्यामृषा यथा जीवन्मृतकृमिराशौ जीवराशिरिति, अजीवमिश्रा च अजीवविषया सत्यामृषा यथा तस्मिन्नेव प्रभूतमृतकृमिराशावजीवराशिरिति, जीवाजीवमिश्रेति- जीवाजीवविषया सत्यामृषा यथा तस्मिन्नेव । जीवन्मृतकृमिराशौ प्रमाणनियमेनैतावन्तो जीवन्त्येतावन्तश्च मृता इत्यभिदधतस्तन्न्यूनाधिकभावे। तथानन्तमिश्रा खल्वि ति। अनन्तविषया सत्यामृषा यथा मूलकन्दादौ परीतपत्रादिमत्यनन्तकायोऽयमित्यभिदधतः, परीतमिश्रा- परीतविषया सत्यामृषा यथा अनन्तकायलेशवति परीतम्लानमूलादौ परीतोऽयमित्यभिदधतः। अद्धामिश्रा- कालविषया सत्यामृषा यथा कश्चित्
॥३२७॥
For Private and Personal Use Only